SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ MaROSCICE च्छेदः, स्वामित्वं चेति । तत्र लक्षणभेदौ प्रतिपादयन्नाह-इह द्विविध उदयः-सम्प्राप्युदयोऽसंप्राप्त्युदयश्च । तत्र यस्य कर्मदलिकस्य कालक्रमेणोदयहेतुद्रव्यक्षेत्रादिसामग्रीसंपत्तावनुभूयमानस्योदयःस सम्प्राप्युदयः, यत्पुनरकालपाप्तं कर्मदलिकमुदीरणाख्यवीर्यविशेषेणाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्युदयः । एषैव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि 'प्रयोगत:'-उदीर| णाप्रयोगेण सम्प्राप्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणा, लक्षणनिदशोऽयम् । सेवीकास्थितिभ्य उदीरणाप्रायोग्याभ्यो 'यकाभ्यो'-यावतीभ्य आवलिकाद्विकहीनोत्कृष्टस्थितिसमयप्रमाणाभ्यः प्रयोगविशेषेणाकृष्य सम्प्राप्युदये दीयते 'तत्तिग' त्ति-तावती तावद्भेदप्रमाणा एषा स्थित्युदीरणा । अयं भावः-इह भेदकल्पनायोग्याः स्थितयः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते, सेव्यन्ते | भेदकल्पना प्रत्याश्रीयन्ते इति सेवीका इत्यौणादिकव्युत्पत्तेः । ताश्च द्विधा-उदीरणायाः प्रायोग्या अप्रायोग्याश्च । तत्र बन्धसंक्रमो. दयावलिकात्रयगता अपायोग्याः, करणासाध्यत्वात् । शेषाश्च सर्वा अपि प्रायः प्रायोग्याः। तत्रोदये सति यासां प्रकृतीनामुत्कृष्टबन्धसं| भवस्तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या, उदयोत्कृष्टबन्धानां प्रकृतीनां बन्धावलिकात्यय एवोदयावलिकाबहिर्वर्तिनीनां सर्वासामेवोदीरणाप्रवृत्तेः । अनुदयोत्कृष्टबन्धानां तु स्थितय उदीर्यमाणस्थितिदलिकसहभाविकालप्राप्तदलिकानुभ| वसंभवानतिक्रमेणोदीरणाप्रायोग्याः। आवलिकाद्विकहीनायाश्चोत्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणाया भेदाः। तथाहि-उदयाबलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्यचिदुदीरणाप्रायोग्या यस्य तावत्येव शेषीभूता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकादिकहीना कस्याप्युत्कृष्टा स्थितिरिति । भेदनिर्देशोऽयम् ।।२९॥ इदाणिं साइअणाइ परूवणा। सा दुविहा-मूलपगतिठितिसादिअणादिपरूवणा, उत्तरपगतिठितिसादिअ-| GDC&
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy