SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४३॥ wa मुदयः सम्प्राप्युदयः । यत्पुनरकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्युदयः । एषैव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि सती प्रयोगत उदीरणा प्रयोगेण संप्राप्युदये पूर्वोक्तस्वरूपे प्रक्षिप्ता सती दृश्यते केवलचक्षुषा सा स्थित्युदीरणा । एष लक्षणनिर्देशः । अधुना भेद उच्यते - 'सेवीका' इत्यादि । इह यासां स्थितीनां भेद परिकल्पना संभवति ताः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते । ताश्च द्विधा - उदीरणायाः प्रायोग्या अप्रायोग्याश्च । काः प्रायोग्याः काचाप्रायोग्या इति चेद् १ उच्यते- बन्धावलिकागता संक्रमावलिकागता उदद्यावलिकागताश्चाप्रायोग्याः 'संक्रमबन्धुदयुबट्ट णा लिगाईणकरणाई' इतिवचनप्रामाण्यात् । शेषाश्च सर्वा अपि प्रायः प्रायोग्याः । तत्रोदये सति यासां प्रकृतीनामुत्कृष्टो बन्धः संभवति तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या । तथाहि — उदयोत्कृष्टबन्धकानां प्रकृतीनां बन्धावलिकायामतीतायामुदयावलिकाबहिर्वर्तिनीः स्थितीः सर्वा अप्युदीरयति । अनुदयोत्कृष्टबन्धानां तु यथासंभवमुदीरणाप्रायोग्याः । आवलिकाद्विकहीनायाश्चोत्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणायाः प्रभेदाः । तथाहि उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्याप्युदीरणाप्रायोग्या यस्य तावत्येव शेषीभूता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकाद्विकहीना कस्यापि सर्वाप्युत्कृष्टा स्थितिरिति । अक्षरयोजना त्वियं-सेवीकास्थितिभ्य - उदीरणाप्रायोग्याभ्यो यकाभ्यो यावतीभ्य आवलिकाद्विकहीनोत्कृष्टस्थिति समयप्रमाणाभ्य इत्यर्थः, उदीरणाप्रयोगेण समाकृष्य स्थितिः संप्राप्युदये दीयते तावती - तावद्भेदपमाणा सैपदीरणा ||२९|| ( उ० ) - तदेवमुक्ता प्रकृत्युदीरणा, अथ स्थित्युदी (रणाऽभिधेया । तत्र चैतेऽर्थाधिकाराः- लक्षणं, भेदः, साद्यनादिप्ररूपणा, अद्धा स्थित्युदी रणा ॥ ४३ ॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy