SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४०॥ Aa मन्तरालगतौ द्विचत्वारिंशदवसेया। तथा पञ्चाशदे केन्द्रियाणां शरीरस्थानां । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यक्पञ्चेन्द्रियनराणां शरीरस्थानां द्विपञ्चाशत् । पर्याप्तानां सुरनैरयिकाणां सासादनसम्यक्त्वस्थानां पञ्चपञ्चाशत् । तिर्यक्पश्चेन्द्रियमनुष्यदेवानां पर्याप्तानां षट्पञ्चाशत् । पर्याप्ततिर्यकपञ्चेन्द्रियाणां उद्योतोदयिनां सप्तपञ्चाशत् । सम्यग्मिथ्यादृष्टे स्त्रीण्युदीरणास्थानानि - पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् चेति । तत्र देवनैरयिकाणां पञ्चपञ्चाशत् । तिर्यग्नृदेवानां षट्पञ्चाशत् । तिर्यक्पश्चेन्द्रियाणामुद्योतोदयिनां सप्तपञ्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि द्विचत्वारिंशदेकपञ्चाशदादीनि सप्त च । तत्र नैरयिकसुरतिर्यक्पञ्चेन्द्रियनराणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यक्पञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । नैरयिकसुरबैक्रियतिर्यग्नराणां त्रिपञ्चाशत् । देवनैरयिकतिर्यक्पञ्चेन्द्रियवैक्रियतिर्यग्नराणां चतुःपञ्चाशत् । एपामेव पञ्चपञ्चाशदपि । देवतिर्यक्पञ्चेन्द्रि यमनुष्याणां षट्पञ्चाशत् । तिर्यक्पश्चेन्द्रियाणामुद्योतोदयिनां सप्तपञ्चाशत् । देशविरतस्योदीरणास्थानानि पट् - एकपञ्चाशत् त्रिपञ्चा| शत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशचेति । तत्रैकपञ्चाशत्रिपञ्चाशचतुःपञ्चाशत्पञ्चपञ्चाशाच्च तिर्यङ्मनुष्याणां वैक्रियशरीरस्थानामवसेया । तेपामेव स्वभावस्थानां वैक्रियशरीरिणां च पट्पञ्चाशत् । सप्तपञ्चाशत्तिर्यक्पञ्चेन्द्रियाणामुद्योतसहितानाम् । प्रमतसंयतानां पञ्चोदीरणास्थानानि - एकपञ्चाशत्रिपञ्चाशदादीनि चत्वारि च । पञ्चाप्येतानि वैक्रियशरीरिणामाहारकशरीरिणां वा । षट्प वाशचौदारिकस्थानामपि । अप्रमत्तसंयतानां पञ्चपञ्चाशत् षट्पञ्चाशचेति द्वे उदीरणास्थाने । तत्र षट्पञ्चाशदौदारिकस्थानां, वैक्रियाहारकस्थानामपि केषाञ्चित्संयतानां सर्वपर्यात्या पर्याप्तानां कियत्कालमप्रमत्तत्वमपि प्राप्यत इति तेषां द्वे उदीरणास्थाने । अपूर्वकरणादिषु पञ्चसु गुणस्थानेष्वेकं पदपञ्चाशल्लक्षणमुदीरणास्थानम् । तच्चौदारिकस्थानामवसेयम् । एकस्मिन् सयोगिकेवलिगुणस्थान केऽष्टावुदी Su प्रकृत्युदी रणा
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy