________________
PISODDESSOC
हरणास्थानानि-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपञ्चाशदादीनि षद् चेति । एतानि च प्रागेव भावितानि ।
तदेवं गुणस्थानेषु नाम्न उदीरणास्थानानि भावितानि । अथ कस्मिन्नुदीरणास्थाने कति भङ्गाः प्राप्यन्त इति संचिकलयिषुराह-'ठाणक्कमेण' इत्यादि-स्थानकक्रमेण-एकचत्वारिंशदायुदीरणास्थानक्रमेण भङ्गा अपि वक्ष्यमाणरीत्या ज्ञेयाः । तथाहि-एकचत्वारिंशत्येको भङ्गः, स चातीर्थकृत्केवलिनः। द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पञ्च, विकलेन्द्रियानधिकृत्य प्रत्येकं त्रिकमाप्तेनव, तिर्यपञ्चेन्द्रियान्मनुष्याँश्चाधिकृत्य पञ्च पञ्च, जिनमधिकृत्यैकः, सुरानधिकृत्य चत्वार इति । मतान्तरेण तु तिर्यक्पञ्चेन्द्रियान्मनुष्याँश्चाश्रित्य नव नव, देवानधिकृत्य चाष्टौ भङ्गाः प्राप्यन्त इति द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः। पञ्चाशत्येकादश भङ्गाः, ते चैकेन्द्रियेष्वेव प्राप्यन्तेऽन्यत्र पञ्चाशतोऽप्राप्तेः । एकपश्चाशत्येकविंशतिर्भङ्गाः। तत्र नैरविकेष्वेकः, एकेन्द्रियेषु सप्त, वैक्रियतिर्यकपञ्चेन्द्रियनरेषु चत्वारश्चत्वारः, आहारकशरीरिसंयतेष्वेकः, देवेषु चत्वार इति । मतान्तरेण तु वैक्रियतिर्यङ्मनुष्यदेवेषु प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्त इति त्रयस्त्रिंशद्भङ्गाः। 'सबार तिसई यत्ति-सद्वादश द्वादशाधिका त्रिशती भङ्गानां द्विपश्चाशत्यवसेया । तत्रैकेन्द्रियानधिकृत्य त्रयोदश, विकलेन्द्रियेषु प्रत्येकं त्रिकत्रिकप्राप्तेर्नव भवन्ति, तिर्याञ्वेन्द्रियेषु पञ्चचत्वारिंशं शतं, मनुष्येयपि पञ्चचत्वारिंशं शतमिति । मतान्तरेण तु भङ्गानां पदशती द्विपञ्चाशति वेदितव्या, तिर्यपञ्चेन्द्रियेषु मनुष्येषु च प्रत्येकं भङ्गानामेकोननवत्यधिकशतद्वयप्राप्तः । त्रिपञ्चाशत्येकविंशतिर्भङ्गाः, तत्र नैरयिकेष्वेकः, एकेन्द्रियेषु षद् , वैक्रियतिर्यपञ्चेन्द्रियेषु चत्वारः, वैक्रिय मनुष्येष्वपि चत्वारः, आहारकशरीरिणस्त्वधिकृत्यैकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति । अत्रापि मतान्तरेण वैक्रियतिर्यप|ञ्चेन्द्रियमनुष्यदेवेषु प्रत्येकमष्टावष्टौ भङ्गा इति त्रिपश्चाशति त्रयस्त्रिंशद्भङ्गाः। चतुःपञ्चाशति भङ्गानां षडुत्तरागि षट् शतानि, तथाहि