________________
CGSPARROHOSDID
त्वष्टौ भङ्गाः । सर्वाग्रेण पञ्चपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाश2G त्युद्योतक्षेपे पट्पश्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरेऽष्टौ भङ्गाः। सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गाः, मतान्तरे चतुःषष्टि।
नरयिकाणामुदीरणास्थानानि पञ्च, तथाहि-द्विचत्वारिंशदेकपश्चाशत्रिपश्चाशचतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूज्यौं पञ्चेन्द्रियजातिस्त्रसवादरपर्याप्तदुर्भगानादेयायशाकीर्तय इत्येता नव प्रकृतयस्त्रयस्त्रिंशद्धवोदीरणाभिर्मिश्रिता द्विचत्वारिंशद्भवति । अत्र सर्वाणि पदान्यप्रशस्तानीत्येक एव भङ्गः । ततः शरीरस्थस्य वैक्रियसप्तकहुण्डसंस्थानोपघातप्रत्येकलक्षणदशप्रतिक्षेपे नर| कानुपूर्व्यपनयने एकपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगतिप्रक्षेपे त्रिपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छवासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। ततो भाषापर्याच्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः । तदेवमुक्तानि नामकर्मण उदी| रणास्थानानि ।
अर्थतान्येव गुणस्थानकेषु योजयन्नाह-गुणिसु णामस्स' इत्यादि । मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु गुणिषु-गुणस्थानकेषु यथासङ्खयं नवादिसङ्खयान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पञ्चाशत
एकपश्चाशत् द्विपश्चाशत् त्रिपश्चाशत् चतुःपश्चाशत् पश्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशत् चेति । अमूनि सर्वाण्यपि मिथ्या( दृष्टीनेकेन्द्रियादीनधिकृत्य स्वयं भाव्यानि । सासादनसम्यग्दृष्टेः सप्तोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पश्चाशत् एकपञ्चाशत् ।
| द्विपश्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशचेति । तत्र बादरैकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानां सासादनसम्यग्दृशा
ENGGCRORDPREGGC