________________
कर्मप्रकृतिः
SONISIONE
प्रकृत्युदीरणा
॥३९॥
CADDOOK
भङ्गो । ततो भाषापर्याप्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशद्भवति । भङ्गोत्राप्येक एव । सर्वसङ्गययाऽऽहारकशरीरिणां सप्त भङ्गाः । तदेवं मनुष्यानपेक्ष्य सामान्यमनुष्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भङ्गाः सर्वसंख्यया त्रयोदश | शतानि चतुर्विंशदधिकानि । परमतेन तु पर्विंशतिशतानि पञ्चाशदधिकानि । ...... _देवानामुदीरणास्थानानि षट्-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र देवगतिदेवानुपूव्यौं पञ्चेन्द्रियजातिः सबादरपर्याप्तानि सुभगादेययोदुर्भगानादेययोश्चैकतरयुगलं यशःकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याभिर्मिश्रिता द्विचत्वारिंशद्वर्गनिष्पादिका भवन्ति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण तु सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां चाष्टौ भङ्गाः। ततः | शरीरस्थस्य क्रियसप्तकाद्यसंस्थानोपघातप्रत्येकलक्षणप्रकृतिदशकस्य क्षेपे देवानुपूर्व्याश्चापनयने एकपञ्चाशद्भवति । अत्रापि प्राग्वत्स्व| मतेन चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी । ततः शरीरपर्याप्या पर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे त्रिपञ्चाशत् । अत्रापि प्राग्वत्स्वमतेन चतुर्भङ्गी, मतान्तरेणाष्टमङ्गी, देवनामप्रशस्तविहायोगत्युदयाभावात् तदाश्रितभङ्गाप्राप्तिः । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्रापि स्वमते चतुर्भङ्गी, मतान्तरेणाष्टमङ्गी । यद्वा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि | तूदिते चतुःपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे त्वष्टौ भङ्गाः । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण च
षोडश भङ्गाः । ततो भाषापर्याच्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुखरे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि स्वमते चत्वारो, | मतान्तरे त्वष्टौ भङ्गाः । यद्वा प्राणापानपर्याप्तस्य स्वरस्यानुदये उद्योतनाम्नस्तूदये पञ्चपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे
R
॥३९॥
SHIOCat