________________
पञ्चाशच यथा प्राग्वैक्रियकारितिर्यपञ्चेन्द्रियाणामुक्ता तथाऽत्रापि ज्ञेया। चतुःपञ्चाशत्युछ्वाससहितायां प्राग्वत् स्वमते चतुर्भङ्गी, मतान्तरे त्वष्टभङ्गी । उत्तरवैक्रियं कुर्वतां च चारित्रिणामुद्योतनामोदयमेति, नान्येषाम् । ततस्तत्सहितायां चतुःपञ्चाशति शुभ एवैको भङ्गः, चारित्रिणां दुर्भगानादेयायशःकीयुदयाभावात् । सर्वाग्रेण चतुःपञ्चाशति स्वमते पञ्चभंगी, मतान्तरेण तु नवभङ्गी । ततो , भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशत् । अत्रापि प्राग्वत् स्वमतेन चतुर्भङ्गी, मतान्त-16 | रेण त्वष्टभङ्गी । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्नि तूदिते पञ्चपञ्चाशत् । अत्रैकः शुभ एव भङ्गः । सर्वाग्रेण पञ्चपञ्चा
शति स्वमते पञ्चभङ्गी, मतान्तरे तु नवभङ्गी । सुस्वरसहितायां पञ्चपञ्चाशत्युद्योतक्षेपे षट्पञ्चाशत् , अस्यां चैक एव प्रशस्तो | भङ्गः । सर्वाग्रेण वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिर्भङ्गाः, मतान्तरेण पञ्चत्रिंशत् । अथाहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते
आहारकसंयतानामुदीरणास्थानानि पञ्च, तथाहि-एकपञ्चाशत्रिपञ्चाशच्चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्राहारकसप्तकमाद्यसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकमपनीतमनुष्यानुपूर्वीकं मनुष्यगतिप्रायोग्यद्विचत्वारिंशति क्षिप्तमेकपञ्चाशत्प्रकतिवर्गनिष्पादकम् । अत्र च सर्वाण्यपि पदानि प्रशस्तानीत्येक एव भङ्गः। ततः शरीरपर्याच्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातप्रक्षेपे त्रिपञ्चाशत् , भङ्गोत्राप्येक एव । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया चतुःपञ्चाशति द्वौ भङ्गो । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशद्भवति । भङ्गोत्राप्येक एव । अथवा | प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः। सर्वाग्रेण पञ्चपञ्चाशति द्वौ