SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कृत्युदा रणा भङ्गी । सर्वाग्रेण चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण तु षोडश भङ्गाः। ततो भाषापर्याप्तया पर्याप्तस्योच्छ्वाससहितायां चतुःपकर्मप्रकृतिः १७ श्वाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशत् । अत्रापि स्वमते भङ्गाश्चत्वारः, मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते ॥३८॥ उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् भवति, अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ, सर्वांग्रेण पञ्चपञ्चाशत्यष्टौ भङ्गाः स्वमते, मतान्तरे तु षोडश । ततः स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशत् । अत्रापि भङ्गाः खमते चत्वारः, मतान्तरेऽष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तियपञ्चेन्द्रियाणां भङ्गा अष्टाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सर्वतिर्यक्रपञ्चेन्द्रियाणां स्वमतेन भङ्गा|श्चतुर्विशतिशतानि द्वघशीत्यधिकानि, मतान्तरेणैकोनपञ्चाशच्छतानि द्विषव्यधिकानि । ___ अथ मनुष्याणामुदीरणास्थानान्युच्यन्ते-तत्र केवलिनां प्रागेवोक्तानि, अन्येषां तु पञ्च, तथाहि-द्विचत्वारिंशत् द्विपञ्चाशत् चतुः | पञ्चाशत् पञ्चपञ्चाशत् पदपञ्चाशचेति । एतानि सर्वाण्यपि यथा तिर्यपञ्चेन्द्रियाणां प्रागुक्तानि तथैव भाव्यानि । नवरं तिर्य: ग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूव्यौं वाच्ये । पञ्चपञ्चाशत् षट्पञ्चाशच्चोद्योतरहिता वाच्या, वैक्रियाहारकलब्धि| शालिसंयतान् विहायान्येषां मनुष्याणामुद्योतोदयाभावात् । भङ्गा अपि सर्वत्रोद्योतविनाकृतास्तथैव मतद्वयेऽपि वाच्याः । तथाहि-स्वम| तेन द्विचत्वारिंशति पञ्चकं, द्विपञ्चाशति पञ्चचत्वारिंशं शतं, चतुपञ्चाशति द्विशत्यष्टाशीत्यधिका, पञ्चपञ्चाशत्यपि द्विश| त्यष्टाशीत्यधिका, षट्पञ्चाशति पञ्चशती षट्सप्तत्यधिका । परमते तु यथाक्रम नव, द्वे शते एकोननवत्यधिके, पञ्चशतानि षट्ससत्यधिकानि, पुनरपि पञ्च शतानि षट्सप्तत्यधिकानि, एकादश शतानि च द्विपपञ्चाशदधिकानि । वैक्रियं कुर्वतामपि मनुष्याणामुदीरणास्थानानि पञ्च भवन्ति, तथाहि-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्रैकपञ्चाशत्रि SODECK ॥३८॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy