________________
च्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । सर्वसङ्ख्या पञ्चपञ्चाशति खमते भङ्गानां पञ्चशती षट्सप्तत्यधिका, मतान्तरेण तु द्विपञ्चाशदधिकान्येकादश शतानि । ततो भाषापर्याहया पर्याप्तस्य सुस्वरदुःखरान्यतरप्रक्षेपे षट्पञ्चाशत् । तत्र स्वमतेनोच्छ्वासेन लब्धे द्वे शते अष्टाशीत्यधिके, स्वरद्विकेन गुणिते सती पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति । मतान्तरेण तु भङ्गानां द्विपञ्चाशदधिकान्येकादश शतानि । अथवा प्राणापानपर्याहया पर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशत्, तत्र च खमते भङ्गानां द्विशत्यष्टाशीत्यधिका प्राग्वत्, मतान्तरेण च पञ्चशती षट्सप्तत्यधिका । सर्वसङ्ख्यया षट्पञ्चाशती खमतेन भङ्गानामष्टशती चतुःपट्यधिका, मतान्तरेण तु सप्तदशशत्यष्टाविंशत्यधिका । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि क्षिप्ते सप्तपञ्चाशत् । तत्र भङ्गाः खरसहितायां षट्पञ्चाशति मतद्वयेन यावन्त उक्तास्तावन्त एव ५७६ । ११५२। तथा तेषामेव तिर्यक्पञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति - एकपञ्चाशत् त्रिपञ्चाशच्चतुः पश्चाशत् पञ्चपञ्चाशत् पटपञ्चाशचेति । तत्र वैक्रिय सप्तकमाद्य संस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकमपनीततिर्यगानुपूर्वीकं तिर्यक पञ्चेन्द्रिययोग्यद्विचत्वारिंशति क्षिप्तमेकपञ्चाशत्प्रकृतिवर्ग निष्पादयति । अत्र सुभगादेय युगल दुर्भगानादेय युगलयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । मतान्तरेण तु सुभगादुर्भगाभ्यामादेयानादेवाभ्यां यशः कीर्त्ययशः कीर्तिभ्यां च प्रत्येकेन सहाष्टौ भङ्गाः । ततः शरीरपर्यात्या पर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे त्रिपञ्चाशत् । अत्र प्राग्वत् स्वमते चत्वारो भङ्गाः, मतान्तरे त्वष्टौ । ततः प्रागापानपर्यात्या पर्याप्तस्योच्छ्वासनाम्नि प्रक्षिप्ते चतुःपञ्चाशत् । अत्रापि खमते प्राग्वच्चतुर्भङ्गी, मतान्तरे त्वष्टभङ्गी । अथवा शरीरपर्यात्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशत् । अत्र स्वमते चतुर्भङ्गी, मतान्तरेण त्वष्ट
522