________________
कर्मप्रकृतिः
प्रकृत्युदी
रणा
॥३७॥
CARRIDOSGe
रेकतरयुगलं यश-कीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयस्त्रयस्त्रिंशद्ध्वोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा चान्तरालगतौ द्रष्टव्या । अत्र भङ्गाः पञ्च, तत्र पर्याप्तकनामोदये सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययश-कीर्तिपरावर्तनैश्चत्वारो भङ्गाः, | अपर्याप्तकनामोदयस्थस्य तु दुर्भगानादेयायशःकीर्तिभिरेक एवेति । इह सुभगादेययोर्दुर्भगानादेययोर्वा मिलितयोर्युगपदेवोदय इति | पञ्चभङ्गयभिधानं । अपरे वाहुः-नानयोयुगपदुदयभावनियमोऽन्यथाऽपि दर्शनात् । ततः पर्याप्तकनामोदये वर्तमानस्य सुभगादेय | दुर्भगानादेययश-कीर्त्ययश कीर्तिभिरष्टभङ्गी, अपर्याप्तकनामोदये तु दुभंगानादेयायशःकीर्तिभिरेक एव भङ्गः। सर्वाग्रेण द्विचत्वारिंशति नव भङ्गाः। ततः शरीरस्थस्यौदारिकसप्तकपडन्यतमसंस्थानषडन्यतमसंहननोपघातप्रत्येकलक्षणैकादशकक्षेपे तियगानुपूाश्चोत्सारणे द्विपञ्चाशत् । तत्र भङ्गानां पञ्चचत्वारिंशं शतं । तथाहि-पर्याप्तस्य षड्भिः संस्थानः पड्भिः संहननैः सुभगादेयदुर्भगानादेययुगलद्वयेन यशःकीर्त्ययश-कीर्तिभ्यां च परस्परं गुणने भङ्गानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य चान्त्यसंस्थानसंहननदुर्भगानादेयायशःकीर्तिभिरेक इति । ये तु सुभगादेययोदुर्भगानादेययोर्वा केवलयोरप्युदयमिच्छन्ति तन्मतेन भङ्गानां द्विषञ्चाशति द्विशत्येकोननवत्यधिका ज्ञातव्या। तत्र पर्याप्तस्य पड्भिः संस्थानः षड्भिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशकीर्तिभ्यां द्वे शते अष्टाशीत्यधिके, अपर्याप्तस्य तु प्रागुक्तस्वरूप एक इति । ततः शरीरपर्याप्त्या पर्याप्तस्य द्विपञ्चाशति पराघातप्रशस्ताप्रशस्तविहायोगत्यन्यतरप्रक्षेपे चतुःपञ्चाशत् । अत्र च यत्पर्याप्तानां प्राकू चतुश्चत्वारिंशं भङ्गशतमुक्तं, तदेव विहायोगतिदिकेन द्विगुणितं कर्तव्यं । तथा च सत्यत्र भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । ततः प्राणापानपर्याप्या पर्याप्तस्योछ्वासक्षेपे पञ्चपञ्चाशत् । अत्र प्रागिव भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । अथवा शरीरपर्याप्या पर्याप्तस्यो
॥३७॥
Ca