SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ग्गतितिर्यगानुपूव्यों द्वीन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेत्येता नवी | प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्सङ्ख्याभिधुंवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगताववसेया । अत्र च | भङ्गत्रयी-अपर्याप्तकनामोदयेऽयशाकीर्त्या सहेको भङ्गः, पर्याप्तकनामोदये च यश-कीर्त्ययश-कीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तकहुण्डसंस्थानान्त्यसंहननोपघातप्रत्येकरूपैकादशप्रकृतिक्षेपे तिर्यगानुपूर्व्याश्चोत्सारणे द्विपञ्चाशजायते । अत्र च प्राग्वदेव भङ्ग त्रयी। ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगतिपराघातप्रक्षेपे चतुःपञ्चाशत् , अत्र यश-कीर्त्ययश-कीर्तिभ्यां द्वौ भङ्गौ । 2 ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गो । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासे ऽनुदिते उद्योतनाम्नि तूदिते पश्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गौ । सर्वाग्रेण पश्चपश्चाशति चतुर्भङ्गी । ततो भाषापर्याप्त्या पर्या-11 तस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरप्रक्षेपे षट्पञ्चाशत् । अत्र सुस्वरदुःस्वरयश-कीर्त्ययश-कीर्तिपदैश्चत्वारो | भङ्गाः । यद्वा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशद्भवति । अत्र यश-कीर्त्ययश-कीर्तिभ्यां द्वौ भङ्गौ । सर्वाग्रेण षट्पञ्चाशति षड्भङ्गी । ततो भाषापर्याप्या पर्याप्तस्य स्वरसहितायां षट्पश्चाशत्युद्योतनामक्षेपे सप्तपञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयश-कीर्त्ययशःकीर्तिपदैश्चत्वारो भङ्गाः । सर्वे भङ्गा द्वीन्द्रियाणां द्वाविंशतिः । एवं त्रीन्द्रियचतुरिन्द्रिययोरपीयन्त्येवोदीरणास्थानानीयन्त एव च भङ्गा भावनीयाः। सर्वाग्रेण विकलेन्द्रियाणां भङ्गाः पदक्षष्टिः। तिर्यपञ्चेन्द्रियाणां वैक्रियलब्धिविकलानां षडुदीरणास्थानानि-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् | सप्तपश्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यौं पञ्चेन्द्रियजातिवसबादरे पर्याप्तापर्याप्तयोरेकतरं सुभगादेययुगलदुर्भगानादेययुगलयो
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy