________________
स्वभावस्थान्मनुष्यानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियमनुष्यानधिकृत्य चत्वारः, संयतान् वैक्रियशरीरिणोऽधिकृत्योद्योतेन स-| | हैकः, आहारकश्चरीरिणः संयतानधिकृत्य द्वौ, देवानधिकृत्याष्टाविति। अत्रापि मतान्तरेण प्राकृततियपञ्चेन्द्रियानधिकृत्य पञ्चशता-| | नि पदसप्तत्यधिकानि, वैक्रियतिर्यपञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधि| कृत्य नव, देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया चतुःपञ्चाशति द्वयधिकानि द्वादश शतानि । पञ्चपञ्चाश| ति भङ्गानां नव शतानि एकाधिकानि, तद्यथा-नैरयिकानधिकृत्यैकः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते इति द्वादश, तिर्यपञ्चेन्द्रियान् स्वभावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियशरीरणोऽधिकृत्याष्टौ, मनुष्यान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, वैक्रियसंयत्तानधिकृत्योद्योतेन सहकः, आहारकशरीरिणोऽधिकृत्य द्वौ, तीर्थकरमधिकृत्यैकः, देवानधिकृत्याष्टाविति । मतान्तरेण तियपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादशशतानि, वैक्रियतिर्यक्रपञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यान् स्वभावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधिकृत्य नव, देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । षट्पञ्चाशति | भङ्गानामेकोनसप्तत्यधिकानि चतुर्दश शतानि, तद्यथा-दीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं षद् पद् प्राप्यन्ते इत्यष्टादश, ति. रायपञ्चेन्द्रियान् स्वभावस्थानधिकृत्याष्टौ शतानि चतुःषष्टयधिकानि, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, मनुष्यानधिकृत्य पञ्च शता
नि षट्सप्तत्यधिकानि, बक्रियशरीरिणः संयतानधिकृत्योद्योतेन सहैकः, आहारकशरीरिणः संयतानधिकृत्यैकः, तीर्थकरमाश्रित्यकः, दे. वानाश्रित्य चत्वारः । अत्र मतान्तरेण तियपञ्चेन्द्रियानधिकृत्य सप्तदशशतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यपञ्चेन्द्रियानधिकृ.
KSSERTSOVRAQae