SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३४॥ Disa कृत्यैकः, देवानधिकृत्य चत्वारः । ये पुनः सुभगादेययोर्दुर्भगानादेययोश्च केवला केवल योरप्युदयमिच्छन्ति, तन्मतेन द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः, यतस्तन्मतेन तिर्यक्पञ्चेन्द्रियानधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैव । पञ्चाशत्येकादश भङ्गाः, ते चैकेन्द्रियानेवाधिकृत्य प्राप्यन्ते, अन्यत्र पञ्चाशतोऽप्राप्यमाणत्वात् । एकपञ्चाशत्येकविंशतिभङ्गाः, तत्र नैरयिकानधिकृत्यैकः, पञ्चेन्द्रियानधिकृत्य सप्त, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य चत्वारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणः संयतानधिकृत्यैकः, देवानाश्रित्य चत्वारः, इत्येकविंशतिः । मतान्तरेण पुनर्वैक्रियतिर्यङ्मनुष्यदेवानधिकत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तदपेक्षया त्रयस्त्रिंशद्भङ्गाः । 'सवार तिसए य' -ति-सद्वादशा सद्वादशाधिका त्रिशती भङ्गानां द्विपञ्चाशत्यवगन्तव्याः, तत्रैकेन्द्रियानाश्रित्य त्रयोदश, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं पाप्यत इति नव, तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्चचत्वारिंशं शतं, मनुष्यानप्यधिकृत्य पञ्चचत्वारिंशं शतमिति । अत्रापि मतान्तरेण तिर्यक पञ्चेन्द्रियान्मनुष्यांश्चाधिकृत्य प्रत्येकं द्वे द्वे शते भङ्गानामेकोननवत्यधिके प्राप्येते इति तदपेक्षया द्विपञ्चाशति भङ्गानां षट् शतानि प्राप्यन्ते । त्रिपञ्चाशति भङ्गानामेकविंशतिः, तद्यथा - नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पद्, वैक्रियतियैकपञ्चेन्द्रियानधिकृत्य चवारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणोऽधिकृत्य पुनरेकः, तीर्थकरमप्याश्रित्यैकः, देवानप्यधिकृत्य चत्वारः । अत्रापि मतान्तरेण वैक्रियतिर्यक्पञ्चेन्द्रियमनुष्यदेवानधिकृत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इति तदपेक्षया त्रिपञ्चाशति त्रयस्त्रिंशद्भङ्गाः । चतुःपञ्चाशति भङ्गानां षट् शतानि षडुत्तराणि तद्यथा - नैरयिकानधिकृत्यैकः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं द्वौ द्वौ प्राप्येते इति षट् तिर्यक्पञ्चेन्द्रियान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टौ, प्रकृत्युदी रणा ॥३४॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy