________________
S&Sa S
SEDICTODESISE
विरतस्योदीरणास्थानानि पद्, तद्यथा-एकपश्चाशत् , त्रिपश्चाशत् , चतुःपञ्चाशत् , पञ्चपञ्चाशत् , पट्पश्चाशत् , सप्तपश्चाशच्चेति । तत्रैकपञ्चशत्रिपञ्चाशच्चतुःपञ्चाशत्पश्चपश्चाशञ्च तिर्यङ्मनुष्याणां वैक्रिपशरीरे वर्तमानानामवसेया । तिर्यङ्मनुष्याणामेव स्वभावस्थानां वैक्रियशरीरिणां च षट्पञ्चाशत् । तेषामेव तिर्यकाश्चेन्द्रियागामुद्योतसहितानां सप्तपश्चाशत् । प्रमत्तसंपतानामुदीरणास्थानानि पञ्च, तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपश्चाशत् पञ्चपञ्चाशत् पट्पञ्चाशचेति । तत्र पश्चाप्येतानि वैक्रियशरीरिगामाहारकशरीरिणां | वा द्रष्टव्यानि । षट्पञ्चाशत्पुनरौदारिकस्थानामध्यवगन्तव्या । अप्रमत्तसंयतानां वे उदीरणास्थाने, तद्यथा-पञ्चपञ्चाशत पद्पश्चाशचेति । तत्र पट्पश्चाशदौदारिकशरीरस्थानां । इह केषांचित वैक्रियशरीरस्थानामाहारकशरीरस्थानां वा संयतानां सर्वपर्याप्या पर्याप्तानां कियत्कालमप्रमत्तभावोऽपि लभ्यत इति तेपा द्वे अप्युक्तरूपे उदीरणास्थाने । 'एकं पञ्चसु' ति-पश्चसु गुणस्थानकेषु अपूर्वकरणनिवृत्तवादरमूक्ष्मसंपरायोपशान्तमोहक्षीगमोहरूपेषु एकमुदीरगास्थानं भवति-पट्पश्चाशत् , सा चौदारिकशरीरस्थानामिति । 'एक्कम्मि | अट्ठति-एकस्मिन् सयोगिकेवलिगुणस्थान केऽष्टावुदीरणास्थानानि, तद्यथा-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपञ्चाशत् त्रिपश्चाशन चतुःपञ्चाशत् पञ्चपञ्चाशत् पद्पश्चाशत् सप्तपश्चाशचेति। एतानि च प्रागेव समपञ्चं भावितानीति नेह भूयो भाव्यन्ते । श तदेवं चिन्तितानि गुणस्थानकेषूदीरणास्थानानि । सम्प्रति कस्मिन्नुदीरगास्थाने कति भङ्गाः प्राप्यन्त इति चिन्तायां तन्निरूपणार्थमाह'ठाण' इत्यादि-स्थानक्रमेणैकचत्वारिंशदाद्युदीरणास्थानक्रमेण भङ्गा अपि च वक्ष्यमाणसंख्यया ज्ञातव्याः, तद्यथा-एकचत्वारिंशत्येको भङ्गः, स चातीर्थकरकेवलिनः । द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पश्च, द्वीन्द्रियत्रीन्द्रिय-10 चतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं त्रिकं प्राप्यत इति नव, तिर्यपञ्चेन्द्रियानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थकरमधि
aara