SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३३॥ यदOSORSEENSECON तदेवमुक्तानि नामकर्मण उदीरणास्थानानि । संप्रत्येतान्येव गुणस्थानकेषु दर्शयति-'गुणिसुत्ति नाम्नो नामकर्मणो गुणिषु गुणस्थानेषु मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु यथासंख्यं नवादिसंख्यान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्था- प्रकृत्युदा रणा नानि, तद्यथा-द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पश्चाशत् सप्तपश्चाशचेति । अमुनि च सर्वाण्यपि मिथ्यादृष्टीनेकेन्द्रियादीनधिकृत्य व परिभावनीयानि । सासादनसम्यग्दृष्टेरुदीरणास्थानानि सप्त, तद्यथाद्विचत्वारिंशत् पञ्चाशत् एकपश्चाशत् द्विपञ्चाशत् पश्चपश्चाशत् षट्पञ्चाशत् सप्ताश्चाशचेति । तत्र द्विवत्वारिंशत् बादरैकेन्द्रियद्वीन्द्रिय| त्रीन्द्रित्रचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानां सासादनसम्यग्दृष्टीनामान्तरालगतौ वर्तमानानामवसेया। तथा एकेन्द्रियाणां शरीर-2 स्थानां पञ्चाशत् । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्याणां शरीरस्थानां द्विपञ्चाशत् । देवनैरयिकाणां पर्याप्तानां सासादनसम्यक्त्वे वर्तमानानां पञ्चपञ्चाशत् । तिर्यकाञ्चेन्द्रियमनुष्यदेवानां पर्याप्तानां पद्पश्चाशत् । तिर्यकाञ्चेन्द्रियाणामुधोतवेदकानां पर्याप्तानां सप्तपश्चाशत् । सम्यग्मिथ्यादृष्टेखीण्युदीरणास्थानानि, तद्यथा-पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाश-16 चेति । तत्र देवनरयिकाणां पञ्चपञ्चाशत् । तिर्यग्मनुष्यदेवानां पद्पञ्चाशत् । तिर्यपञ्चेन्द्रियाणामुद्योतवेदकानां सप्तपश्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि, तद्यथा-द्विचत्वारिंशत एकपञ्चाशत् द्विपश्चाशत् त्रिपञ्चाशत् चतुःपश्चाशत् पञ्चपञ्चाशत् षटूपञ्चाशत् सप्तपश्चाशचेति । तत्र नैरयिकदेवतिर्यपञ्चेन्द्रियमनुष्याणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यक्षञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । देवनैरयिकतिर्यङ्मनुष्याणां त्रिपश्चाशत् । देवनैरयिकपञ्वेन्द्रियवैक्रियतिर्यग्मनुष्याणां चतुःपञ्चाशत् ॥३३॥ एतेषामेव पञ्चपञ्चाशदपि । देवतिर्यपञ्चेन्द्रियमनुष्याणां पट्पश्चाशत् । तिर्यपश्चेन्द्रियाणामुद्योतवेदकानां सप्तपश्चाशत् । देश
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy