SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भङ्गा न प्राप्यन्ते । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति । अत्रापि खमतेन चत्वारो भङ्गाः, मतान्तरेणाष्टौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ भङ्गा मतान्तरेण षोडश । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन प्रागिव चत्वारो भंगा मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेनाष्टौ भङ्गा मतान्तरेण तु षोडश । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति । अत्रापि स्वमतेन त एव चत्वारो भङ्गा मतान्तरेणाष्टौ । सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गा मतान्तरेण चतुःषष्टिः । नैरयिकाणामुदीरणास्थानानि पञ्च तद्यथा-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूण्य पञ्चेन्द्रियजातिस्त्रस बादरपर्याप्त दुर्भगानादेयायशः कीर्तय इत्येताना प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह समिश्रा द्विचत्वारिंशद्भवति । अत्र च सर्वाण्यपि पदानि अप्रशस्तान्येवेति कृत्वा एक एव भङ्गः । ततः शरीरस्थस्य वैक्रिय सप्तकं हुंडसंस्थानं उपघातं प्रत्येकमिति दश प्रकृतयः प्रक्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत एकपञ्चाशद्भवति । अत्राप्येक एव भंगः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति । अत्राप्येक एव भंगः । ततः प्राणापानपर्याया पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद् भवति, अत्राप्येक एव भङ्गः । ततो भाषापर्याप्त्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चा शद्भवति । अत्राप्येक एव भंगः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः । 452225
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy