SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ त्याष्टौ, मनुष्यानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया षट्पञ्चाकर्मप्रकृतिः शति एकोनत्रिंशच्छतानि सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशती एकोननवत्यधिका, तद्यथा-द्वीन्द्रिय प्रकृत्युदी रणा ॥३५॥ रात्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारश्चत्वारः प्राप्यन्त इति द्वादश, तिर्यकपञ्वेन्द्रियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिका-1K नि, तीर्थकरमाश्रित्यक इति । अत्रापि मतान्तरेण तिर्यपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि भङ्गानां प्राप्यन्ते, शेषं तथैवेति तदपेक्षया सप्तपञ्चाशति पञ्चषष्टयधिकानि एकादश शतानि भङ्गानां भवन्ति ।। २५-२६-२७॥ (उ०)-तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, अथ नामकर्मणस्तान्याह-एकचत्वारिंशत्, द्विचत्वारिंशत्, ततः पश्चाशदादयः सप्तपश्चाशत-पञ्चाशदेकपश्चाशत द्विपश्चाशत्रिपञ्चाशचतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पश्चाशत्सप्तपश्चाशच्चेति नामकर्मण उदीरणास्थानानि दश भवन्ति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतास्त्रयस्त्रिंशत्प्रकृतयो ध्रुवोदीरणाः ।। तत्र नरगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तिरूपेऽष्टके क्षिप्ते एकचत्वारिंशद्भवति । एतस्य चैकचत्वारिंशद्वर्गस्य सयोगिकेवली केवलिसमुद्घाते कार्मणकाययोगे वर्तमान उदीरको भवति । एषैव चैकचत्वारिंशज्जिननामसहिता द्विचत्वारिंशद्भवति । | तस्याश्च तीर्थकरकेवली केवलिसमुद्घाते कार्मणकाययोगस्थ उदीरकः-। एकचत्वारिंशद्वर्गे औदारिकसप्तकपडन्यतमसंस्थानवज्रर्षभना| राचसंहननोपघातप्रत्येकलक्षणैकादशकक्षेपे द्विपञ्चाषद्भवति । अत्र षभिः संस्थानैः षड्भङ्गाः। ते च वक्ष्यमाणसामान्यमनुष्यभङ्गान्तगता द्रष्टव्याः । एवमग्रेऽपि । एनां द्विपञ्चाशतं समुद्घाते औदारिकमिश्रकाययोगस्थः सयोगी केवल्युदीरयति । अत्रैव तीर्थकरनाम क्षेपे त्रिपञ्चाशत् । केवलमिह संस्थानमाद्यमेवाभिधातव्यम् । अस्या उदीरकस्तीर्थकरकेवली समुद्घाते औदारिकमिश्रकाययोगे वर्तमानो & SEBAGASCOGS ॥३५॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy