SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्तद्यथा-स्वमतेन द्विचत्वारिंशति पञ्च, द्विपञ्चाशति पञ्चचत्वारिंशं शतं, चतुःपञ्चाशति द्वे शते अष्टाशीत्यधिके, पञ्चपञ्चाशत्यपि द्वे शते अष्टाशीत्यधिके, षट्पञ्चाशति पश्च शतानि षट्सप्तत्यधिकानि । परमतेन तु यथाक्रम ९।२८९। ५७६ । ५७६ । ११५२ । वैक्रियमपि कुर्वतां मनुष्याणामुदीरणास्थानानि पश्च भवन्ति, तद्यथा-एकपञ्चाशत् , त्रिपञ्चाशत्, चतुःपश्चाशत् , | पञ्चपञ्चाशत् , षट्पञ्चाशच्चेति । तत्रैकपञ्चाशत्रिपञ्चाशच्च यथा प्राग्वैक्रियतिर्यक्षञ्चेन्द्रियाणामुक्तास्तथात्रापि द्रष्टव्याः। चतु:पञ्चाशत्युच्छ्वाससहितायां प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ । उत्तरवैक्रियं कुर्वतां संयतानामुद्योतनामोदयमागच्छति, नान्येषां, ततस्तेन सह चतुःपञ्चाशति प्रशस्त एवैको भङ्गो भवति, संयतानां दुर्भगानादेयायशःकीयुदयाभावात् । सर्वसंख्यया चतुःपञ्चाशति स्वमतेन पञ्च भङ्गाः मतान्तरेण नव । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टो । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्मि तूदिते पञ्चपञ्चाशद्| भवति । अत्रापि प्रागिव एक एव भङ्गः। सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन पश्च भङ्गा मतान्तरेण नत्र । पञ्चपञ्चाशति सुस्वरसहितायामुद्योते क्षिप्ते षट्पञ्चाशद्भवति । तस्यां चैक एव प्रशस्तो भंगः। सर्वसंख्यया वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिभङ्गाः | मतान्तरेण पञ्चत्रिंशत् । संप्रत्याहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते-आहारकसंयतानामुदीरणास्थानानि पञ्च, तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्राहारकसप्तकं समचतुरस्रसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां मनुष्यगतिप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, मनुष्यानुपूर्वी चापनीयते, तत एकपश्चाशद्भवति । केवलमिह सर्वाण्यपि पदानि प्रशस्तान्येवेति कृत्वा एक एव भंगः। शरीरपर्याप्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातयोः प्रक्षिप्तयोखिपञ्चाशद्भवति ।
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy