SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ -कर्मप्रकृतिः प्रकृत्युदी रणा ॥३॥ देयानादेयाभ्यां यशाकीय॑यशकीर्तिभ्यां च पर्याप्तकेन सहाष्टौ भङ्गाः । ततः शरीरपर्याप्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतो च प्रक्षिप्तायां त्रिपञ्चाशद्भवति । अत्रापि प्रागिव चत्वारो भङ्गाः, मतान्तरेण पुनरष्टौ । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासनाम्नि प्रक्षिप्ते चतुःपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशद्भवति । अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेगाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ भङ्गाः, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति स्वरे प्रक्षिप्ते पञ्चपञ्चाशद्भवति अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा प्राणापानपर्याप्या पर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया स्वमतेन पञ्चपञ्चाशति भङ्गा अष्टौ, मतान्तरेण षोडश । ततः स्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति । अत्रापि भङ्गाः स्वमतेन चत्वारो मतान्तरेणाष्टौ। सर्व संख्यया वैक्रियं कुर्वतां तिर्यपञ्चेन्द्रियाणां भङ्गा अष्टाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सामान्येन सर्वतिर्यपञ्चेन्द्रियाणां स्वमतेन भङ्गाश्चतुर्विंशतिशतानि द्वयशीत्यधिकानि मतान्तरेण एकोनपञ्चाशच्छतानि द्विषटयधिकानि । ___ सम्प्रति मनुष्याणामुदीरणास्थानानि प्रतिपाद्यन्ते-तत्र केवलिनां प्रागेवोक्तानि । अन्येषां तु पञ्च, तद्यथा-द्विचत्वारिंशत् द्विपञ्चा| शत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । एतानि सर्वाण्यपि यथा प्राक् तिर्यकपञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्त| व्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूच्या वक्तव्ये । पञ्चपञ्चाशद् षट्पञ्चाशचोद्योतरहिता वक्तव्या। वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् । भङ्गा अपि सर्वत्राप्युद्योतरहितास्तथैव स्वमतपरमतापेक्षया वक्तव्या RDSददददद ॥३१॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy