SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ततः प्राणापानपर्यात्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण | पञ्च शतानि षट्सप्तत्यधिकानि । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन भङ्गकानां पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण तु द्विपञ्चाशदधिकानि एकादश शतानि । ततो भाषापर्यात्या पर्याप्तस्य सुखरदुःखरयोरन्यतरस्मिन् क्षिप्ते षट्पञ्चाशद्भवति । तत्र स्वमतचिन्तायां ये उच्छ्वासेन द्वे शते अष्टाशीत्यधिके भङ्गकानां प्राक् लब्धे ते इह स्वरद्विकेन गुण्यते, ततो लब्धानि पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण पुनरिह द्विपञ्चाशदधिकान्येकादश शतानि भङ्गकानां भवन्ति । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनान्मि तूदिते षट्पञ्चाशद्भवति । अत्र च स्वमतचिन्तायां प्रागिव द्वे शते अष्टाशीत्यधिके भङ्गकानां, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया खमतेन षट्पञ्चाशति भङ्गा अष्टौ शतानि चतुःपट्यधिकानि, मतान्तरेण सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपञ्चाशद्भवति । अत्र ये प्राक् खरसहितायां षट्पञ्चाशति भङ्गा अभिहिताः खमतेन पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण द्विपञ्चाशदधिकान्येकादश शतानि त एवात्रापि द्रष्टव्याः । तथा तेषामेव तिर्यक्पञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति । तद्यथा - एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र वैक्रियसप्तकं समचतुरस्रसंस्थानं उपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां तिर्यंपञ्चेन्द्रियप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, तत एकपञ्चा| शद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययशः कीर्तिपर्याप्तपदैश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगादुर्भगाभ्यामा as दाद
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy