SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भङ्गः प्राप्यत इति सर्वसंख्यया केवलिनां षभङ्गाः । तत्रैकचत्वारिंशत्यतीर्थकृत एकः, शेषेषु तु पञ्चसु तीर्थकृतः । तदेवमुक्तानि केवलिनामुदीरणास्थानानि । सम्प्रत्येकेन्द्रियाणामभिधीयन्ते-एकेन्द्रियाणामुदीरणास्थानानि पञ्च, तद्यथा-द्विचत्वारिंशत् पश्चाशत् एकपञ्चाशत् द्विपञ्चा. | शत् त्रिपञ्चाशञ्चेति । तत्र तिर्यग्गतितिर्यगानुपूज्यौँ स्थावरनामैकेन्द्रियजातिर्बादरसूक्ष्मयोरेकतरत् पर्याप्तापर्याप्तयोरेकतरत् दुभगमनादेयं यश-कीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिर्बुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सन्मिश्रा द्विचत्वा| रिंशद्भवति । अत्र च भङ्गाः पञ्च, तद्यथा-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश-कीर्त्या सह चत्वारः, बादरपर्याप्तयश-की| तिभिश्चैकः । सूक्ष्मापर्याप्ताभ्यां सह यश-कीर्तरुदयो न भवति, तदभावाच्च नोदीरणेति कृत्वा तदाश्रिता विकल्पा न भवन्ति । एषा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या । ततः शरीरस्थस्यौदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपं नवकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चाशद्भवति । अत्र च भङ्गा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यश-कीर्त्ययश कीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तवादरस्य प्रत्येकसाधारणाभ्यामयशःकी, सह द्वौ, सूक्ष्मस्य | 2 च पर्याप्तापर्याप्तप्रत्येकसाधारणैरयशकीर्त्या सह चत्वार इति दश । बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकषट्कस्थाने वैक्रियषट्कमवगन्तव्यम् । ततश्च तस्यापि पश्चाशदेवोदीरणायोग्या भवति । केवलमिह बादरपर्याप्तप्रत्येकायश कीर्तिभिरेक एव भङ्गः । तैजस्कायिकवायुकायिकयोहि साधारणयशकीयोरुदयो न भवति, तदभावाच्च नाप्युदीरणा, ततस्तदाश्रिता भङ्गा न प्राप्यन्ते । तदेवं सर्व-13 संख्यया पश्चाशत्येकादश भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते एकपश्चाशद्भवति । अत्र च भङ्गाः षट् , तद्यथा-बाद
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy