________________
कर्मप्रकृतिः ॥२८॥
नामकर्मण उदीरणास्थानानि दश, तद्यथा - एकचत्वारिंशत्, द्विचत्वारिंशत्, पञ्चाशत्, एकपञ्चाशत्, द्विपञ्चाशत्, त्रिपञ्चाशत्, चतुः - पञ्चाशत्, पञ्चपञ्चाशत्, षट्पञ्चाशत्, सप्तपञ्चाशञ्चेति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतासां त्रयस्त्रिंशत्प्रकृतीनामुदीरणा ध्रुवा । तत्र मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशः कीर्तिरूपेऽष्टके प्रक्षिप्ते सति एकचत्वारिंशद्धवति । एतासां चैकचत्वारिंशत्प्रकृतीनां केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमानः केवली उदीरको भवति । एषैव चैकचत्वारिंशत्तीर्थकरनामसहिता द्विचत्वारिंशद्भवति । तस्याश्च तीर्थकरः केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमान उदीरकः । तस्यामेवैकचत्वारिंशति औदारिकसप्तकं षण्णां संस्थानानामेकतमत् संस्थानं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमित्येकादशके प्रक्षिप्ते सति द्विप - ञ्चाशद्भवति । अत्र पद्भिः संस्थानैः षड्भङ्गाः, ते च वक्ष्यमाणसामान्यमनुष्य भङ्गग्रहणेन गृहीता द्रष्टव्याः, एवमुत्तरत्रापि । एतस्याश्च द्विपञ्चाशतः सयोगिकेवली समुद्घातगत औदारिकमिश्रकाययोगे वर्तमान उदीरकः । एषैव च द्विपञ्चाशत्तीर्थकरनामसहिता त्रिपञ्चाशत् । केवलमिह संस्थानं समचतुरस्रमेव वक्तव्यम् । अस्या अप्युदीरकः सयोगिकेवली तीर्थकर औदारिकमिश्र काययोगे वर्तमानो | वेदितव्यः । तथा सैव द्विपञ्चाशत् पराघातनामोच्छ्वासनाम प्रशस्ता प्रशस्तविहायोगत्योरन्यतरा विहायोगतिः सुखदुःस्वरयोरन्यतरस्वरनामेतिचतुष्टयप्रक्षेपात् षट्पञ्चाशद्भवति । एनां च सयोगिकेवली औदारिककाययोगे वर्तमान उदीरयति । पराघातोच्छ्वासप्रशस्तविहायोगति सुस्वरप्रक्षेपात्रिपञ्चाशत् सप्तपञ्चाशद्भवति । एतस्याश्च तीर्थकरः सयोगिकेवली औदारिककाययोगे वर्तमान उदीरकः । सप्तपञ्चाशदेव वाग्योगनिरोधे षट्पञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्धे पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ताः षट्पञ्चाशद्वागयोगे निरुद्धे पञ्चपञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्धे चतुःपञ्चाशत् । अत्र द्विपञ्चाशचतुःपञ्चाशद्वर्जेषु शेषेषु षट्सु प्रत्येकमेकैको विशेष
Gadha a
प्रकृत्युदीरणा
॥२८॥