________________
CARDDIRE TOMORRC
| म्यक्त्वेषु युगपत्क्षिप्तेषु नवानामुदीरणा । अत्र भङ्गानामेका चतुर्विशतिः ।
परस्मिन्नविरतसम्यग्दृष्टयुत्तरे-देशविरते पश्चादीनि 'अट्ठ' त्ति-अष्टान्तानि चत्वायुदीरणास्थानानि । तथाहि-पश्च षद् सप्ताष्टौ चेति । तत्र तृतीयचतुर्थकषायस्थान्यतमक्रोधादिद्वयान्यतमवेदान्यतरयुगललक्षणानां पश्चानां प्रकृतीनां देशविरतस्य ध्रुवोदीरणा । इयं चौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽवसेया। अत्र प्राग्वद्भङ्गानामेका चतुर्विंशतिः। भयजुगुप्सावेदकसम्यक्त्वानामन्यतमप्रक्षेपे | तु षण्णामुदीरणा, भङ्गानां च तिस्रश्चतुर्विंशतयः, एकैकप्रक्षेपविकल्पे चतुर्विंशतिप्राप्तेः । तस्मिन्नेव पञ्चके भयजुगुप्सयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोर्यद्वा भयवेदकसम्यक्त्वयोर्युगपत्मक्षेपे सप्तानामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गानाम् । भयजुगुप्सावेदकसम्यक्त्वानां युगपत्प्रक्षेपे चाष्टानामुदीरणा । अत्र चैका चतुर्विशतिर्भङ्गानाम्।
विरते-प्रमत्तेऽप्रमत्ते च चतुरादीनि 'सत्त'त्ति-सप्तपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, चत्वारि पञ्च षद् सप्त चेति ।। तत्र संज्वलनान्यतमैकक्रोधाद्यन्यतमवेदान्यतरयुगललक्षणानां चतसृणां प्रकृतीनां क्षायिकसम्यक्त्ववत औपशमिकसम्यक्त्ववतो वा| प्रमत्तस्याप्रमत्तस्य वोदीरणा ध्रवा । अत्रैका भङ्गानां चतुर्विंशतिः । अस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् | प्रक्षिप्ते पश्चानामुदीरणा । अत्र भङ्गानां तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोरथवा जुगुप्सावेदकसम्यक्त्वयोयुगपत्प्रक्षेपे षण्णामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गानाम् । भयजुगुप्सावेदकसम्यक्त्वानां युगपत्प्रक्षेपे च सप्तानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम् ।
'छच्चोवरिल्लम्मि'त्ति । विरतादुपरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदीरणास्थानानि भवन्ति, चतस्रः पञ्च षट् चेति ।