________________
कर्मप्रकृतिः
DAUN
॥२०॥
GHODEODNESEGOs
चैका चतुर्विंशतिर्भङ्गकानाम् । एताश्चापूर्वकरणसत्काश्चतुर्विंशतयः परमार्थतः प्रमत्ताप्रमत्तचतुर्विशतिकातोऽभिन्न स्वरूपा इति न पृथगने गणयिष्यन्ते ॥२३॥
प्रकृत्युदी
रणा (उ०) तदेवं मिथ्यादृष्टौ मोहनीयस्योदीरणास्थानान्युक्तानि, अथ सासादनादिषु तान्याह --सासादनसम्यग्दृष्टौ च सप्तादीनि नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव चेति । तत्र सासादनसम्यग्दृष्टावनन्तानुवन्ध्यादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलमित्येताः सप्त नियमादुदीर्यन्ते । अत्र प्रागुक्तनीत्या भङ्गानामेका चतुर्विशतिः । तथाऽस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गानाम् । भयजुगुप्सयो. युगपत् क्षेपे च नवानामुदीरणा । तत्र भङ्गानामेका चतुर्विंशतिः । सम्यग्मिथ्यादृष्टावनन्तानुबन्धिवर्जानां त्रयाणां क्रोधादीनामन्यतमवेदस्यान्यतरयुगलस्य सम्यग्मिथ्यात्वस्य चेति सर्वसंख्यया सप्तानामुदीरणा ध्रुवा । अत्र प्राग्वदेव भङ्गानामेका चतुर्विंशतिः । तथाऽत्रैव सप्तके भयजुगुप्सयोरन्यतरप्रक्षेपेऽष्टानामुदीरणा । अत्र भङ्गानां द्वे चतुर्विंशती । भयजुगुप्सयोयुगपत्प्रक्षेपे च नवानामुदीरणा । | अत्र चैका चतुर्विंशतिभङ्गानाम् । तथाविरतेऽविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि चत्वायुदीरणास्थानानि, षट् सप्ताष्टौ नव चेति ।
तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जान्यतमक्रोधादित्रयान्यतमवेदान्यतरयुगललक्षणानां षण्णां प्रकृती. | नामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव षट्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्ता
॥२०॥ | नामुदीरणा । अत्र भङ्गानां तिस्रश्चतुर्विंशतयः । तस्मिन्नेव षद्के भयजुगुप्सयोर्यद्वा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्व-10 योयुगपत्प्रक्षेपेऽष्टानामुदीरणा । अत्राप्येकैकस्मिन् विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । भयजुगुप्सावेदकस