________________
G
तस्यां च सत्यां शेषप्रकृतिदलिकसंक्रान्तिः, संक्रान्तस्य च संक्रमावलिकायामतीतायामुदयः, उदये च सत्युदीरणा । ततो बन्धसमया| दनन्तरमावलिकायामतीतायामुदीरणाऽभिधीयमाना न विरुध्यत इति । तथा तस्मिन्नेव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोर्यद्वा जुगुप्सानन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदीरणा । अत्रापि चैकैकस्मिन् विकल्पे प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः प्राप्यत | इति तिस्रश्चतुर्विंशतयोऽत्र द्रष्टव्याः । तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु प्रक्षिप्तषु दशानामुदीरणा । अत्रैकैव भङ्गकानां चतुर्विंशतिः ॥ २२ ॥
(उ०)-एवमेकैकप्रकृत्युदीरणाखामित्वमुक्तं, अथ प्रकृत्युदीरणास्थानान्याह-द्वितीयकर्मणि दर्शनावरणीये पश्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । तत्र चतसृगां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां ध्रुवा छद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकान्यतरप्रकृतिप्रक्षेपे च पञ्चानामुदीरणा। तथा मोहे-मोहनीये एकादिका त्रिकहीनोदीरणा तावद्रष्टव्या यावद्दशानां, मोहनीयस्यो
दीरणायामेकादीनि त्रिकहीनानि दशान्तानि नव प्रकृतिस्थानानि भवन्तीत्यर्थः, १-२-४-५-६-७-८-९.१०। एषामुदीरणास्थानानां स्वामिनघामाह-'मिच्छे' इत्यादि । मिथ्यादृष्टौ सप्तादीनि यावद्दशेति दशपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव दश चेति । तत्र | मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे क्रोधादयः, सजातीयकषायाणां सर्वेषां युगपदुदयात् युगपदुदीरणा, विजातीयानां तु क्रोधमानादीनां युगपदुदयाभावादेव नोदीरणेति त्रयाणां क्रोधानां, त्रयाणां वा मानानां, तिसृगां वा मायानां, त्रयाणां वा लोभानां युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्यरत्यरतिशोकरूपयोयुगलयोरन्यत| रघुगलम् । एताः सप्त प्रकृतयो मिथ्यादृष्टौ ध्रुवोदीरणाः। अत्र भङ्गाश्चतुर्विंशतिः। तथाहि-योयुगलयोः परावर्तनेनैकैको भङ्गो
ODSOTORS