SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१६॥ प्रकृत्युदीरणा ज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यत एकस्मिन् क्रोधे उदीर्यमाणे सर्वक्रोधा उदीर्यन्ते, एवं मानमायालोमा अपि | द्रष्टव्याः, न च युगपत् क्रोधमानमायालोभानामुदीरणा, युगपदुदयाभावात् , किं तु त्रयाणां क्रोधानां, त्रयाणां वा मानानां, या तिसृणां मायानां, अथवा त्रयाणां लोभानां युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्यरतियुगलारतिशोकयुगलयोरन्यतरद्युगलम् । एतासां सप्तप्रकृतीनां मिथ्यादृष्टौ उदीरणा धुवा। अत्र च भंगाश्चतुर्विंशतिस्तद्यथा-हास्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको भङ्गः प्राप्यत इति द्वौ भङ्गौ । तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्यत इति द्वौ त्रिभिर्गुणितौ | जाताः षट् । ते च प्रत्येकं क्रोधादिषु चतुषु प्राप्यन्ते इति षट् चतुर्भिर्गुणिता जाता चतुर्विशतिरिति । एतस्मिन्नैव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा क्षिप्तेऽष्टानामुदीरणा । तत्र भयादौ प्रत्येकमेकैका भङ्गकानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विशतयोत्र द्रष्टव्याः। ननु च मिथ्यादृष्टेरवश्यमनन्तानुबन्धिनामुदयः संभवति, उदये च सत्यवश्यमुदीरणा तत्कथं मिथ्यादृष्टिरनन्तानुबन्ध्युदयरहितः प्राप्यते येन तस्य सप्तानामष्टानां वाऽनन्तानुबन्धिरहितानामुदीरणा संभवेत् ? उच्यते-इह सम्यग्दृष्टिना सता केनचित्प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव च स विश्रान्तो न मिथ्यात्वादिक्षयायोद्युक्तः, तथाविधसामग्रयभावात् । ततः कालान्तरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, ततो बन्धावलिका यावन्नाद्याप्यतिक्रामति तावत्तेषामुदयो न भवति, उदयाभावाचोदीरणाया अप्यभावः । बन्धावलिकायां पुनरतीतायामुदयसंभवाद्भवत्येवोदीरणा । ननु कथं बन्धसमयादारभ्यालिकायामतीतायामुदयोऽपि संभवति ? यतोऽबाधाकालक्षये सत्युदयः, अबाधाकालश्चानन्तानुबन्धिनां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतश्चत्वारि वर्षसहस्राणि इति ? नैष दोषः, यतो बन्धसमयादारभ्य तेषां तावत्सत्ता भवति, सत्तायां च सत्यां पतद्ग्रहता, CRICANCEROINCIES ॥१६॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy