________________
कर्मप्रकृतिः
प्रकृत्युदी
॥१७॥
OSEGORIGINEER
लभ्यते ततो द्वौ भङ्गौ जातो, तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्यते इति द्वौ त्रिगुणितौ षड् भवन्ति, ते च प्रत्येकं क्रोधादिषु चतुर्यु | प्राप्यन्त इति षट् चतुर्भिर्गुणिताश्चतुर्विंशतिरिति । एतस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा क्षिप्तेष्टानामुदीरणा । तत्र प्रत्येकमेकैकचतुर्विंशतिप्राप्तेर्भङ्गानां तिस्रश्चतुर्विंशतयो द्रष्टव्याः। ननु मिथ्यादृष्टेरनन्तानुबन्ध्युदयरहितस्याप्राप्तेरुदये च सत्यवश्यमुदीरणेत्यनन्तानुबन्धिरहितानां सप्तानामष्टानां वोदीरणाभिधानमसङ्गतमिति चेन्न, यः सम्यग्दृष्टिरादावनन्तानुबन्धिविसंयोजनां कृत्वैव विश्रान्तस्तादृशसामग्रथभावान्मिथ्यात्वादिक्षयाय नोद्युक्तवान् , कालान्तरे च मिथ्यात्वं गतस्तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तेषां च बन्धावलिका यावदुदयो न भवति, तदभावाच नोदीरणेत्यनन्तानुबन्धिना रहिताया उदीरणाया अपि मिथ्यादृष्टेः संभवात् , बन्धावलिकात्यये चोदये संभवाद्भवत्येवोदीरणा। ननु कथं बन्धसमयादारभ्यावलिकायामतीतायामुदयोऽपि संभवति यावताऽबाधाकालस्य क्षये सत्युदयः, स च जघन्यतोऽप्यनन्तानुबन्धिनामन्तर्मुहूर्तप्रमाण इति, नायं दोषः, यतो बन्धसमयादारभ्य तेषां तावत्पतद्ग्रहता भवति, तस्यां च सत्यां शेषचारित्रमोहनीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तस्य च तस्य स्वबन्धावलिकारूपसंक्रम्यमाणदलिकसंक्रमावलिकायामतीतायायुदयः, उदये च सत्युदीरणा। ततो बन्धसमयादनन्तरमावलिकायामतीतायामुदीरणाभिधानं न विरुध्यत इति । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोर्यद्वा जुगुप्सानन्तानुबन्धिनोमिलितयोः प्रक्षिप्तयोर्नवानामुदीरणा । अत्राप्युक्तरीत्यैकैकविकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयो द्रष्टव्याः। तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु मिलितेषु प्रक्षिप्तेषु दशानामुदीरणा । अत्रैकैव भङ्गानां चतुर्विंशतिः ॥२२॥ _इयाणिं सासायणसम्मामिच्छदिट्ठीणं भण्णति
॥१७॥