________________
| उस्सासस्स सराण य पज्जत्ता आणपाणभासासु । सव्वण्णुणुस्सासो भासा वि य जान रुज्झंति ॥१५॥ __(चू०) उस्सासणामस्स आणापाणुपजत्तीए पज्जत्ता सव्वे उदीरगा । सुस्सरदुस्सराणं भासापज्जत्तीए पज्जत्तिगा उदीरगा। 'सवण्णूणुस्सासो भासा वि य जा ण रुज्झंति-सवण्णूणं केवलीणं ऊस्सासभासातो जाव ण | |णिरुज्झति ताव उदीरेति, परत्थ उदयाभावातो णत्थि उदीरणा ॥१५॥
(मलय०)–'उस्सासस्स' ति । उच्छ्वासस्वरशब्दयोरानप्राणभाषाशब्दाभ्यां सह यथासंख्येन योजना । सा चैवं-उच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः । 'सराण य' त्ति-द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , ततः स्वरयोः सुस्वरदुःस्वरयोः प्रागुक्ता उदीरकाः सर्वेऽपि भाषापर्याप्त्या पर्याप्ता द्रष्टव्याः। यद्यपि स्वरयोः प्रागेवोदीरका उक्तास्तथापि ते भाषापर्याप्त्या पर्याप्ता एवोदीरका वेदितव्या इति विशेषोपदेशनार्थ पुनरुपादानम् । तथा सर्वज्ञानां-केवलिनामुच्छ्वासभाषे यावन्नाद्यापि निरोधमुपगच्छतस्तावदुदीर्यते, तन्निरोधानन्तरं तूदयाभावानोदीरणा भवति ॥१५॥
(उ०)-उच्छ्वासस्य स्वरयोश्चानपाणभाषापर्याप्तिभ्यां पर्याप्ताः सर्वेऽप्युदीरकाः । यथासंख्येन योजनात् सप्तम्याश्च तृतीयार्थत्वात उच्छ्वासनाम्नः प्राणापानपर्याप्या पर्याप्ताः सुस्वदुःस्वरयोश्च भाषापर्याप्त्या पर्याप्ता उदीरका द्रष्टव्या इत्यर्थः । यद्यपि स्वरयोरुदीरकाः | प्रागवोक्तास्तथापि भाषापर्याप्त्या एवोदीरका इति विशेषोद्योतनाय पुनरुपादानम् । तथा सर्वज्ञानां-केवलिनामुच्छ्वासभाषे यावन्न निरो-| धमुपगच्छतस्तावदुदीयते, तन्निरोधानन्तरं तूदयाभावादेव नोदीरणा ॥१५।।
SODOHOICEGOR