________________
कर्मप्रकृतिः
प्रकृत्युदीरणा
॥१०॥
RADITOROSCHOT
भोमाय भासापजत्तीए पज्जत्तगाएते सव्वे उदीरगा। 'तसोविय'त्ति-बितिदियादिणो वि तसकातिगा भासा पज्जत्तगा सुस्सरनामाए केइ उदीरगा। 'इयरासिं तसा सणेरतिय'त्ति, इयरासिं ति-अपसत्थविहायगतिदूसरणामाणं तसा सणेरइयत्ति-विगलिंदिताणेरतिता य पंचिंदिया विकेइ अपसत्थविहायगतिनामाए सरीरपज्जत्तीए पज्जत्तगा उदीरगा। दुस्सरणामाए विसवणेरइता भासापजत्तीए पजत्तगा उदीरगा । विगलपंचिंदियतिरियमणुया भयणिजा॥१४॥
(मलय०)–'सगलो'त्ति सकल:-पञ्चेन्द्रियस्तिर्यङ्मनुष्यो वा शरीरपर्याप्त्या पर्याप्तः प्रशस्तविहायोगत्युदये वर्तमानः। तथोत्तरस्यां तनौ-वैक्रियशरीररूपायां वर्तमानाः सर्वे तिर्यञ्चो मनुष्याश्च । तथा सर्वे देवाः-सर्वे च भोगभूमिगताः । इष्टखगतेः प्रशस्तविहायोगते| रुदीरकाः । तथेष्टखरनाम्नः-सुस्वरनाम्नस्त्रसाः-दीन्द्रियादयः। अपिशब्दात्प्रागुक्ताश्च पञ्चेन्द्रियतिर्यगादयो भाषापर्याप्त्या पर्याप्ता यथा
संभवमुदीरकाः। तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसाः-विकलेन्द्रियाःसनैरयिकाः-नैरयिकसहिताः। तथा पञ्चेन्द्रियतियङ्| मनुप्याः केचन यथासंभवमुदीरका वेदितव्याः॥१४॥
(उ०) सकलः पश्चेन्द्रियस्तियङ्मनुष्यो वा शरीरपर्याप्तिपर्याप्त उदितप्रशस्तविहायोगतिः, तथोत्तरस्यां तनौ वैक्रियाहारकशरीररूपायां वर्तमानाः सर्वे तिर्यङ्मनुष्याः, तथा सर्वे देवाः, सर्वे च भोगभूमिगता इष्टखगतेः-प्रशस्तविहायोगतरुदीरकाः। तथेष्टस्वरनाम्नःसुखरनाम्नस्त्रसा द्वीन्द्रियादयः, अपिशब्दात्प्रागुक्ताश्च पञ्चेन्द्रियादयो भाषापर्याच्या पर्याप्ता यथायोगमुदीरकाः। तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसा:-विकलेन्द्रियाः, यथासंभवं केचन च पश्चेन्द्रियतिर्यङ्मनुष्याः, सनैरथिका नैरयिकसहिता उदीरकाः॥१४॥
॥१०॥