________________
कर्मप्रकृतिः |
॥१०१॥
'चेव' त्ति - सो चेव सम्मदिट्ठी दुभगअणाज्जअजसणीयागोयाणं से काले संजमं पडिवजिहीत्ति असंजयचरिमसमए उक्कोस पदेसउदीरओ ॥८६॥
( मलय ० ) - ' अणुपुच्चि 'त्ति - चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ वर्तमानस्तृतीये समये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्ट प्रदेशोदीरकः । केवलं नरकतिर्यगानुपूर्व्याः क्षायिकसम्यग्दृष्टिर्वक्तव्यः । देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । तथा योऽनन्तरसमये संयमं प्रतिपत्स्यते स एवाविरतसम्यग्दृष्टिदुर्भगादीनां दुर्भगानादेयायशः कीर्त्तीनां नीचैर्गोत्रस्य चोत्कृष्ट प्रदेशो | दीरकः ॥ ८६ ॥
( उ० ) - चतसृणामानुपूर्वीणां तत्तद्गतौ तृतीयसमये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्ट प्रदेशोदीरकः । केवलं नरतिर्यगानुपूर्व्योः क्षायिकसम्यग्दृष्टिर्वाच्यः, देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । पश्चसंग्रहे तु - "अणुपुव्विगरण खाइओ सम्मो त्ति" अविशेषेणैवोक्तमविशेषेणैव च व्याख्यातम् । तथाऽनन्तरसमये यः सर्वविरतिं ग्रहीष्यति स एवाविरतसम्यग्दृष्टिः दुर्भगादीनां दुर्भगानादेयायशः कीर्तीनां नीचैर्गोत्रस्य चोत्कृष्टप्रदेशोदीरकः ॥ ८६ ॥
गाणं
दुगाणुपाणूणं । नियगंते केवलिणो सव्वविसुद्धो य सव्वासिं ॥८७॥
१ अत्र चूर्णिमलयगिर्युपाध्यायटोकासु सम्यक्त्वमोहनीयस्योत्कृष्टा प्रदेशोदीरणोक्ता न लभ्यते । परं विचार्यमाणा सा सम्यक्त्वस्योत्कृष्टप्रदेशोदीरणा यदा सर्वसंक्रमेण सम्यक्त्वे मीश्रं संक्रान्तं तदोत्कृष्ट प्रदेशस ताकत्वेनावलिकानन्तरं संभाव्यते । स एव तस्या स्वामीति चिन्तयन्तु कृतधियः ।
प्रदेशोदीरणा
॥१०१॥