SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ EDITORSADEGORICORG | वत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागुदीरतो। दिहाउग्गहणं विसुद्धिणिमित्तं । पंचिंदियतिरिएहिंतोमणु या अप्पबला तेण मणुयग्गहणं । 'हुंडउवघायाण सुहुमोत्ति-हुंडउवघायाणं सुहुमो उक्कोसिए पज्जत्तगणिवहात्तीए पढमसमयोववण्णो आहारगो जहण्णाणुभागुदीरउ, दीहाउग्गहणं विसुद्धिणिमित्तं ॥७॥ ___ (मलय०)-'अमणुत्ति-असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यमनुभागमुदीरयति, अल्पायुग्रहणं संक्लेशार्थम् । तथाऽसंज्ञिपश्चेन्द्रिय एवात्मीयायामायुरुत्कृष्टस्थितौ वर्तमान आहारको भवप्रथमसमये 'शेषे' इति अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनम्, ततोऽयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यानुभागोदीरकः । इह दीर्घायुग्रहणं विशुद्ध्यर्थम् । तिर्यपञ्चेन्द्रियापेक्षया च प्रायो मनुष्या अल्पबला इति मनुष्योपादानम् । तथा | सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोर्जघन्यानुभागोदीरकः ॥७५॥ (उ०)-अमना असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यानुभागोदीरकः । अल्पायुग्रहणं संक्लेशप्रतिपत्तये । तथाऽसंज्ञिपञ्चेन्द्रिय एव 'सगचिरठिई' त्ति-स्वायुरुत्कृष्टस्थितौ वर्तमानो भवप्रथमसमये, 'शेषे' अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनं, तदयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यमनुभाग| मुदीरयति । इह दीर्घायुग्रहणं विशुद्धिप्रतिपत्तये तिर्यपश्चेन्द्रियापेक्षया च पायो मनुष्या अल्पवला इति मनुष्योपादानम् । तथा FDOGODSODE
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy