________________
हदDEODISHAD
न्तानुवन्धिचतुष्टयाप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा । अयमिह सम्प्रदायः-योऽनन्तरसमये सम्यक्त्वं संयमसहितं ग्रहीष्यति तस्य मिथ्यादृष्टेमिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा । तथा योऽविरतसम्यग्दृष्टिरनन्तरसमये संयम प्रतिपत्स्यते तस्याप्रत्याख्यानकषायाणां जघन्यानुभागोदीरणा । यश्च देशविरतोऽनन्तरसमये संयम ग्रहीष्यति तस्य प्रत्याख्यानावरणकषायाणां जघन्यानुभागोदीरणा । मिथ्यादृष्टयपेक्षया हि अविरतसम्यग्दृष्टिरनन्तगुणविशुद्धस्ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैव जघन्यानुभागोदीरणासंभवः । तथा 'सम्मत्तमेव मीसे' इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं प्रतिपत्स्यते, तस्य सम्यग्मिथ्यात्वस्य जघन्यानुभागोदीरणा । सम्यमिथ्यादृष्टियुगपत् सम्यक्त्वं संयमं च न प्रतिपद्यते तथाविशुद्धेरभावात् , किंतु केवलं सम्यक्त्वमेवेति कृत्वा तदेव केवलमुक्तम् । तथा चतुर्णामायुषामात्मीयात्मीयजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति । तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धो भवतीति कृत्वा जघन्यानुभागोऽपि तत्रैव लभ्यते । तथा नरकायुषो विशुद्धिवशाजघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुपस्तत्रैव लभ्यते । तथा च सति त्रयाणामायुषामतिसंक्लिष्टो जघन्यानुभागोदी रकः, नरकायुषस्त्वतिविशुद्ध इति ॥७२॥
(उ०)-से-अनन्तरे काले-द्वितीयसमये यः सम्यक्त्वं ससंयम ग्रहीष्यति तस्य त्रयोदशाना-मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा भवति । अत्रायं सम्प्रदाय:-योऽनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्रतिपद्यते तस्य मिथ्यादृष्टेमिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा, अविरतसम्यग्दृष्टिश्च सन् यः संयमं प्रतिपत्स्यते तस्याप्रत्याख्या| नकषायाणां, देशविरतश्च सन् यः संयमं प्रतिपत्स्यते तस्य प्रत्याख्यानावरणकषायागामिति । मिथ्यादृष्टयपेक्षया ह्यविरतसम्यग्दृष्टिर
Dasaco SSGGEST