________________
दESDDESS
रणा खवणाए अब्भुट्टियस्स खीणकसायरस समयाहियावलियासेसे वट्टमाणस्स । 'विपुलपरमोहिगाणं मणणाणोहीदुगस्सावित्ति-विपुलमणपजवणाणिस्स मणपज्जवणाणावरणस्स तस्सेव खीणकसायस्स। ओहिणाणावरणाणं ओहिदसणावरणाणं वि परमोहिस्स खीणकसायस्स समयाहियावलियसेसे वट्टमाणस्स । किं कारणं ? |भण्णइ-तं तं गाणं उप्पाएमाणस्स अणुभागो खिजइत्ति काउं पच्छा सेढिं पडिवण्णस्स जहण्णा अणुभागउदीरणा ॥१९॥
(मलय०)-तदेवमुक्तमुत्कृष्टानुभागोदीरणास्वामित्वम् । सम्प्रति जघन्यानुभागोदीरणास्वामित्वं प्रतिपादयन्नाह-'सुयकेवलिणो' |त्ति । मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्वधरस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य 'मन्दा' जघन्यानुभागोदीरणा वर्तते । तथा क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदीरणा । परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावरणावधिदर्शनावरणयोजघन्यानुभागोदीरणा ॥६९॥
(उ०) तदेवमुक्तमुत्कृष्टोदीरणास्वामित्वम् , अथ जघन्योदीरणास्वामित्वं प्रतिपादयन्नाह-मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्विणः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मन्दा-जघन्यानुभागोदीरणा भवति । तथा क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानभृतः समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदी| रणा। तथा परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावधिदर्शनावरणयोजघन्यानु
DISDOSADRISHIDARO
O