SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८५॥ अनुभागोदीरणा | रुवर्जशेषकुवर्णादिसप्तकास्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कृष्टे संक्लेशे वर्तमानस्योत्कृष्टानुभागोदीरणा भवति। तथाऽवधिज्ञानावरणावधिदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः 'अनवधिलब्धिकस्य'-अवधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति । अवधिलब्धियुक्तस्य हि प्रभूतोऽनुभागः क्षयं याति, तत उत्कृष्टो न लभ्यत इत्यनवधिलब्धिकस्येत्युक्तम् ॥६८॥ ___(उ०) योगिनः-सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य शेषाणां भणितोद्धरितानां शुभप्रकृतीनां तैजससप्तकमृदुलघुव शुभवर्णायेकादशकागुरुलघुस्थिरशुभसुभगादेययश-कीर्तिनिर्माणोच्चैर्गोत्रतीर्थकरप्रकृतीनां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनःपर्यायकेवलज्ञानकेवलदर्शनावरणमिथ्यात्वषोडशकषायकर्कशगुरुवर्जशेषकुवर्णादिसप्तकास्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कटसंक्लेशवत उत्कृष्टानुभागोदीरणा भवति । तथाऽवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः, अवधिलब्धियुक्तस्य हि प्रभूतोऽवधिज्ञानदर्शनावरणानुभागः क्षीयत इत्युत्कृष्टो न लभ्यते, ततोऽनवधिलब्धिकस्येत्युक्तम् ॥६॥ __उक्कोसाणुभागउदीरणा भणिया, इयाणिं जहण्णाणुभागउदीरणा भण्णइसुयकेवलिणो मइसुयचक्खुअचक्खुणुदीरणा मंदा । विपुलपरमोहिगाणं मणणाणोहिदुगस्सावि ॥६९॥ (चू०)-सुयकेवलि-चउद्दसपुब्बी सव्वुकोसपज्ज वेहिं तस्स मइसुयचक्खुअचखुणं उदीरणा मंदत्ति काउं तेण आभिणिबोहियणाणावरणसुयणाणावरणचक्खुदंसणावरणाणं अचक्खुदंसणावरणाणं जहण्णाणुभागुदी DDRODDERROR ॥८५॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy