SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ DIEODISACROSONESH __ (मलय०)--'निदाइति । मध्यमपरिणामस्य तत्यायोग्यसंक्लेशयुक्तस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानुभागोदीरणा, अत्यन्तविशुद्धस्यात्यन्तसंक्लिष्टस्य वा निद्रापश्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिणामग्रहणम् । तथाऽपुमादीनां-| नपुंसकवेदादीनां नपुंसकवेदारतिशोकभयजुगुप्सानामसातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः-उत्कृष्टस्थितिका समाप्तः-सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वसंक्लिष्टो वेदितव्यः ॥५९॥ __(उ०)-मध्यमपरिणामस्य तत्प्रायोग्यसंक्लेशवतः सर्वपर्याप्तिपर्याप्तस्य निद्रापश्चकस्योत्कृष्टानुभागोदीरणा, अतिविशुद्धस्यातिसंक्लिष्टस्य वा निद्रापश्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिगामग्रहणम् । तथाऽपुमादीनां-नपुंसकवेदादीनां नपुंसकवेदारतिशोकभयजुगुप्सानामसातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः-उत्कृष्टायुष्कः समाप्तः-सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टो 2) ज्ञातव्यः ॥५९॥ पंचिंदियतसबायरपजत्तगसायसुस्सरगईणं । वेउव्वुस्सासाणं देवो जेट्ठिइसमत्तो ॥६॥ (चू०)-पंचिंदियजातितसवादरपज्जत्तगसायसुस्सरदेवगतिवेउब्वियसत्तगउस्सासणामाणं देवो तेत्तीससागरोवमठितिगो सव्वाहिं पजत्तीहिं पज्जत्तो सव्वविसुद्धो एतेसिं पण्णरसण्हं कम्माणं उक्कोसाणुभागउदीरगो। (मलय०)-'पंचिंदिय'त्ति । देवो ज्येष्ठस्थितिकः-उत्कृष्टस्थितिकस्त्रयस्त्रिंशत्सागरोपमस्थितिकः समाप्तः-सर्वाभिः पर्याप्तिभिः | पर्याप्तः सर्वविशुद्धः पञ्चेन्द्रियजातित्रसबादरपर्याप्तसातवेदनीयसुस्वरदेवगतिक्रियसप्तकोच्छ्वासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥६॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy