SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ दीरणा कर्मप्रकृतिः ॥७९॥ ततो द्वे अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता । तथा कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुत्कृष्टानुत्कृष्टा चानुभागोदीरणा मिथ्या-2 दृष्टौ पर्यायेण लभ्यते, अशुभप्रकृतित्वात् । ततो द्वे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । शेपाणामुक्तव्यतिरिक्तानां प्रकृतीनां | दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्चावगन्तव्याः । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥५६-५७॥ | (उ०)--तदेवं कृता मूलप्रकृतिविषिया साद्यादिप्ररूपगा, अथोत्तरप्रकृतिविषयां तामाह-मृदुलघुस्पर्शयोरनुत्कृष्टानुभागोदीरणा चतुविधा-सादिरनादिर्बुवाऽध्रुवा चेति । अनयोर्युत्कृष्टानुभागोदीरणाऽऽहारकशरीरस्थस्य मुनेर्भवति, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तास्यानादिः, ध्रुवाध्रुवे प्राग्वत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुभागोदीरणाऽपि चतुर्विधा सादिरनादिर्घवाऽधुवा चेति । तत्र सम्यक्त्वसंयमौ युगत्प्रतिपित्सोमिथ्यात्वस्य जघन्यानुभागोदीरणा, सा च साद्यधुवा समयमात्रत्वात् , ततोऽन्या सर्वाऽप्यजघन्या, सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्या| नादिः, ध्रुवाधुवे प्राग्वत् । कर्कशगुरुस्पर्शयोर्जघन्यानुभागोदीरणा केवलिसमुद्घातानिवर्तमानस्य षष्ठसमये भवति, सा चैकसामयिकी ति साद्यध्रुवा । ततोऽन्या सर्वाप्यजघन्या । साऽपि केवलिसमुद्घातान्निवर्तमानस्य सप्तमे समये भवन्ती सादिः, तत्स्थानमप्राप्तस्या| नादिः, ध्रुवाध्रुवे प्राग्वत् । तथा तेजससप्तकमृदुलघुवर्जशुभवर्णाघेकादशकागुरुलघुस्थिरशुभनिर्माणलक्षणानां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणाऽनादिधुवाऽध्रुवा चेति त्रिविधा । यत एतासामुत्कृष्टानुभागोदीरणा सयोगिकेवलिचरमसमये, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात् , ध्रुवाधुवे प्राग्वदिति । तथा त्रयोविंशतिप्रकृतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्ककृष्णनीलदुरभिगन्ध AGRORISODE ॥७९॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy