SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ earSODEOSED भागोदीरणा त्रिधा। तद्यथा-अनादिर्धवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरणा सयोगिकेवलिनि । सा च सादिरधुवा च। शेष| कालं त्वनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा चतु प्रकारा । तद्यथा-सादिरनादिरध्रुवा ध्रुवा च । तथाहि-उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सातवेदनीयं तस्य सर्वार्थसिद्धि संप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चापमतगुणस्थानकादौ न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, धुवाधुवे पूर्ववत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायस्य क्षपकस्य समयाधिकावलिकाशेषायां स्थितौ भवति, सा च सादिः । तदनन्तरसमये चाभावादधुवा । शेषकालं त्वजघन्या । सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुन|रनादिः, ध्रुवाधुवे पूर्ववत् । 'तस्सेसगा य दुविगप्पत्ति-तच्छेपा उक्तव्यतिरिक्ता विकल्पाः द्विविकल्पा-द्विप्रकारा ज्ञातव्याः। तद्यथासादयोऽध्रुवाश्च । तथाहि-चतुर्णा घातिकर्मणामुत्कृष्टाऽनुत्कृष्टा चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण प्राप्यते, ततो वे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । तथा नामगोत्रवेदनीयानां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेग लभ्यते । ततो द्वे अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता। आयुषां तु सर्वेषि विकल्पाः साद्यधुवाः । सा च साद्यधुवताऽध्रुवोदीरगत्वादवसेया ।। (उ०)--तदेवं कृता प्रत्ययप्ररूपणा, अथ साधनादिमरूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वन्नाह-मोहनीयरहितानां त्रयाणां घातिकर्म गामजघन्यानुभागोदीरणा त्रिविधा-अनादिवाऽधुवा चेति ।। एषां हि क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागोदीरणा भवति, सा च सादिरधुवा च । शेषकालं त्वजघन्या
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy