SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥७६॥ aza सा चानादिर्भुवोदीरणेति कृत्वा, ध्रुवाऽध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानुभागोदीरणा त्रिविधा - अनादि ध्रुवाऽध्रुवा | चेति । अनयोर्द्युत्कृष्टानुभागोदीरणा सयोगिकेवलिनि, सा च सादिरध्रुवा च शेषकालं त्वनुत्कृष्टा, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्रावत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा सादिरनादिरधुवा ध्रुवा च । तथाहि उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सातवेदनीयं तस्य सर्वार्थसिद्धविमानप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चाप्रमत्तगुणस्थानादौ न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाधुवे प्राग्वत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायक्षपकस्य समयाधिकावलिकाशेषायां स्थितौ, सा च सादिः, तदनन्तरसमये चाभावादधुवा, शेषकालं चाजघन्या, सा चोपशान्तमोहगुणस्थाने न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानम प्राप्तस्यानादिः ध्रुवाधुवे प्राग्वत् । तच्छेषा उक्तव्यतिरिक्ता भेदाः सादयोऽध्रुवाचेति द्विविकल्पाः । तथा हि-चतुर्गा घातिकर्मणामुत्कृष्टानुत्कृष्टे अनुभागोदीरणे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे, जघन्या चाजघन्यावसरे एव भाविता । तथा नामगोत्र वेदनीयानां जघन्याजघन्ये अनुभागोदीरणे मिध्यादृष्टौ पर्यायेण प्राप्यमाणत्वात् साद्यध्रुवे, उत्कृष्टा चानुत्कृष्टावसरे एव भाविता | आयुषां तु सर्वेऽपि विकल्पा अध्रुवोदीरणत्वादेव साद्यधुवाः ॥ ५४-५५ ॥ इदाणि उत्तरपगतीण सादियअणादियपरूवणा भण्णइ म उल हुगाणुक्कोसा चउव्विहा तिण्हमवि य अजहन्ना । णाइगधुवा य अधुवा वीसाए होयणुक्कोसा ॥ ५६ ॥ अनुभागोदीरणा 11-9811
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy