________________
उदीरणा । सव्वेसिं घातिकम्माणं उदीरणा देवणेरइयाणं भवपञ्चइया । पच्चयपरूवणा भणिया ॥ ५३ ॥
( मलय ० ) - 'तित्थयर ' त्ति-तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनोकषायवर्जमोहनीयपश्चविधान्तरायरूपाणि सर्व संख्ययैकोनचत्वारिंशत्प्रकृतयोऽनुभागोदीरणामधिकृत्य तिर्यमनुष्याणां परिणामप्रत्ययाः । एतदुक्तं भवति - आसां प्रकृतीनाः मनुभागोदीरणा तिर्यमनुष्याणां परिणामप्रत्यया भवति । परिणामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्वो मनुष्या वा गुगप्रत्ययेनान्यथा| बद्धानामन्यथा परिणमय्यैतासामुदीरणां कुर्वन्तीति । 'सेसा उ'ति शेषाः प्रकृतयः, सातासात वेदनीयायुञ्चतुष्टयगतिचतुष्टयजातिपञ्चकौ - | दारिकसप्तक संहननषट्कप्रथमवर्ज संस्थानपञ्चककर्कश गुरुस्पर्शानुपूर्वी चतुष्टयोपघातात पोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसाधारणदुर्भगदुःखरानादेयायशः कीर्तिनिर्माणनीचैर्गोत्ररूपाः षट्पञ्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः । एतासामनुभागोदीरणा भवप्रत्ययतो भवतीत्यर्थः । 'पुव्युत्त' इत्यादि । पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यमनुष्यव्यतिरिक्तानां भवप्रत्ययाऽनुभागोदीरणा वेदितव्या । तथाहि - देवनारकै तरहितैश्च तियमनुष्यैर्नवानां नोकषायाणां पश्चानुपूर्व्या, उत्कृष्टानुभाग स्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा भवप्रत्ययादेवोदीर्यन्ते । तथा वैक्रिय सप्तक तैजस ससकवर्णपञ्चक गन्ध द्विकरसपञ्च| कस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकृतीनां देवा नैरयिकाश्च भवप्रत्ययादनुभागोदीरणां कुर्वन्ति । तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना भवप्रत्ययादनुभागोदीरणां देवाः कुर्वन्ति । मृदुलघुस्पर्शपराघातोद्योत प्रशस्तविहायोगति सुस्वर प्रत्येकनाम्नामुत्तरवैक्रियशरीरिणं मुक्त्वा शेषाणां भवप्रत्ययादनुभागोदीरणा प्रवर्तते । सुभगादेय यशः कीत्युचैर्गोत्राणामनुभागोदीरगा गुणहीनस्य भवप्रत्ययादवसेया, गुणवतां तु गुणप्रत्यया । तथा सर्वेषां घातिकर्मणामनुभागोदीरणा भवप्रत्ययादेव देवनारकाणाम् ॥५३॥
छन्द