SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ |णुभागफडगाओ आढवेत्तु असंखिजतिभागो थियादीणं णवण्हं णोकसायाणं उदीरिजइ । सेसा उवरिल्ला 26 उदीरिजंति, देसविरयविरयाणं परिणामपञ्चइगो ॥५२॥ । (मलय०)-'देसविस्य'त्ति । देशविरतानां विरतानां च सुभगादेययशाकीयुच्चैर्गोत्राणामनुभागोदीरणा परिणामकृता । तथाहि| सुभगादिप्रतिपक्षभूतदुर्भगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते तस्यापि देशविरत्यादिगुणप्रभावतः सुभगादीनामेव प्रकृतीनामुदयपूर्वकमुदीरणा प्रवर्तत इति । तथा स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्या संख्येयो भागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामप्रत्ययो वेदितव्यः । इदमुक्तं भवति-स्त्रीवेदादीनामतिजघन्यानुभागस्पर्धकादारभ्य क्रमेणासंख्येयो भागो देशविरतादीनामुदीरणायोग्यो गुणप्रत्ययो भवति, परस्त्वनुभागो नोदीरणामेति ॥५२॥ | (उ०) देशविरतानां विरतानां च सुभगादेययशःकीयुच्चैर्गोत्राणामनुभागोदीरणा गुणपरिणामकृता। तथाहि-सुभगादिविरोधि दुर्भगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते, तस्यापि देशविरत्यादिगुगमहिम्ना सुभगादिप्रकृतीनामेवोदयपूर्व| मुदीरणा प्रवर्तत इति । तथा 'थियाईणं' ति-स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्याऽतिजघन्यानुभागस्पर्धकादारभ्य, क्रमेणे| त्यर्थः, असंख्येयो भागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामकृतो वेदितव्यः, परतस्त्वनुभागो नोदीरणामेति । पञ्चसंग्रह त्वेतेषां जघन्यानुभागस्पर्धकादारभ्यानन्ता भागा उदीरगायोग्या गुगपरिणामकृता उक्ताः, तथा च तद्गाथा-"सुभगाइउच्चगोयं गुणपरिणामा उ देसमाईणं । अइहीणफडगाओ णतंसो णोकसायाणं" ॥५२॥ १ पञ्चसंग्रह उदीरणाकरण गा. ५१
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy