________________
REOSDICCEEDINEKC
तते तथा मनःपर्यायज्ञानावरणस्यापि द्रष्टव्या । तत्रोत्कृष्टा चतुःस्थाने, अनुत्कृष्टा तु चतुःस्थानके त्रिस्थान के द्विस्थानके वा। बन्धे तु मनःपर्यायज्ञानावरणस्य चतुष्प्रकारोऽपि रसो भवति, शेषकर्मणां त्वेकस्थानकं विना त्रिप्रकारः । तानि च शेषकर्माण्यमूनि-केवलज्ञानावरणं केवलदर्शनावरणं निद्रापश्चकं सातासातवेदनीये मिथ्यात्वं द्वादश कषाया षड् नोकषायाः नरकगत्यायुषी देवगत्यायुषी | पञ्चन्द्रियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकमायान्त्यसंस्थाने वर्णपश्चकं गन्धद्विक रसपश्चक स्निग्धरूक्षमृदुलघुशीतोष्णरूपं स्पर्शषट्कमगुरुलघूपघातं पराघातं उच्छ्वासोद्योतविहायोगतिद्विकानि त्रसचतुष्कं स्थिरादिषट्कमस्थिरादिषदकं निर्माणं तीर्थकरं गोत्रद्विकं चेति । एतासां चैकोत्तरशतसङ्ख्यानां शेषकर्मप्रकृतीनामुत्कृष्टामनुभागोदीरणामधिकृत्य चतु:स्थानको रसोऽनुत्कृष्टां त्वधिकृत्य च| तुःस्थानकस्विस्थानको द्विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनोकषायनकानामुत्कृष्टानुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधिकृत्य देशघाती सर्वघाती च । उक्तं च-"'देसोबधाइयाणं उदये देसो व होइ सव्वो वा । देसोवघाइओ च्चिय अचक्खुसम्मत्तविग्घाणं" ॥ अत्रोदय इत्यसंप्राप्त्युदये उदीरणायामित्यर्थः । तथा केवलज्ञानावरणकेवलदर्शनावरणनिद्रापश्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वाऽनुभागोदीरणामधिकृत्य रसः सर्वघात्येव । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः सर्वघातिप्रतिभागः। शुभाशुभत्वे विशेषमाह-मिश्रसम्यग्मिथ्यात्वं सम्यक्त्वमपि चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मस्वधिगन्तव्यम् । अनयोतिकर्मतया रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकग्रन्थेऽनुभागबन्धे शुभाशुभतयाऽभिहतास्तथाऽत्रापि वक्तव्याः । अथ कीदृशेऽनुभागसत्कर्मणि वर्तमाने उत्कृष्टानुभा
१ पञ्चसंग्रहउदीरणाकरण गा० ४२
SDOGCODADDA