________________
कर्मप्रकृतिः
अनुभागोदीरणा
Vत्तरशतसंख्यानां शेषकर्मणामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकत्रिस्थानको द्विस्था२६ नकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणानामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनु- |त्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वानु
भागोदीरणामधिकृत्य रसः सर्वघाती । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रविकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः | | सर्वघातिप्रतिभागः । तथा चतुणां संज्वलनानां नवानां नोकषायाणामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टांत्वधिकृत्य सर्वघाती देशघाती वा प्रतिपत्तव्यः । इदानीमशुभप्रकृतिविषये विशेषमाह-'मीसग इत्यादि । अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मसु मध्येऽवगन्तव्यं, घातिस्वभावतया तयो रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकन न्थेऽनुभागवन्धे शुभा अशुभाश्चोक्तास्तथाऽत्राप्यवगन्तव्याः। अथ कीदृशेऽनुभागसत्कर्मणि वर्तमान उत्कृष्टामनुभागोदीरणां करोति? उच्यते-'छट्ठाण इत्यादि । अनुभागसत्कर्मणः षट्स्थानपतितहीनादपि उत्कृष्टानुभागोदीरणा प्रवर्तते । एतदुक्तं भवति-यत्सर्वोत्कृष्टमनु| भागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुणहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽपि अनन्तानि स्पर्धकानि उत्कृष्टरसान्यद्यापि तिष्ठन्ति, | ततोऽनन्तभागेऽपि शेषे मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीने उत्कृष्टानुभागोदीरणा लभ्यते, किं पुनरसंख्येयगुणहीनादावनुभागकर्मणीति ॥४७॥
(उ०)-मनःपर्यायज्ञानं शेषः कर्मभिः समं वेदितव्यम् । अयं भावः-यथा शेषकर्मणामनुभागोदीरणा चतुत्रिद्विस्थानकविषया प्रव
॥६॥