________________
मणुयतिरियाणमेया एगंतजोग्गातो तीसं पगतीतो-मणुयाउगं तिरियाउगं मणुयगति तिरियगति चत्तारिजातीतो उरालियसत्तगं मज्झिल्ला चत्तारि संठाणा छ संघयणा आतावं थावरं सहम अपज्जत्तगं साहारणमिति, एतासिं सव्वासिं बन्धे तिग्णि हाणा ४-३-२, उदीरणाए उक्कोसो वा अणुभागो दुठाणितो ॥४५॥
(मलय०)-'ठाणेसु' त्ति-नपुंसकवेदो बन्धं प्रतीत्य त्रिप्रकारे रसे । तद्यथा-चतु:स्थानके, त्रिस्थानके, द्विस्थानके, च । अत्र तूत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च । ननु बन्धाभावे कथमुदीरणायामकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि रससंभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामधिकृत्य द्विस्थानके। तथा चतस्र आनुपूयॊ याश्च नरतिरश्चामुदयं प्रत्येकान्तयोग्यास्त्रिंशत्प्रकृतयः, तद्यथा-मनुष्यायुस्तिर्यगायुस्तिर्यग्गतिर्मनुष्यगतिरेके|न्द्रियजातिीन्द्रियजातिस्वीन्द्रियजातिश्चतुरिन्द्रियजातिश्चौदारिकसप्तकमाद्यन्तवर्जसंस्थानचतुष्टयं संहननषटकमातपं स्थावरं सूक्ष्ममपर्याप्तं साधारणं चेति ता अपि बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामुत्कृष्टामनुत्कृष्टां वाऽधिकृत्य द्विस्थानके रसे वेदितव्याः ॥४५॥ ___ (उ०)-अपुमान्-नपुंसकवेदोऽनुभागोदीरणायामेकद्वित्रिचतुःस्थानकरूपेषु चतुर्ध्वपि स्थानेषु ज्ञेयः। तत्रोत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च ज्ञेयः। बन्धं प्रतीत्य पुनरयमेकस्थानकवर्जे त्रिप्रकारे रसे प्रोक्तः। अथ बन्धाभावे नपुंसकवेदस्यैकस्थानको रसः कथमुदीरणायां प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यै
SADISHODHDHODNEKC