________________
अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथानापि द्रष्टव्याः। अयं चार्थः पीठिकायामुक्तप्रायः। नानात्वं-विशेषो यत्तत्र शतकाख्यग्रन्थेऽनुभागबन्धे नोक्तं तदिह वक्ष्ये । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूदीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः॥४३॥ __इसे णाणत्तणिरूवणत्थं भण्णति
मीसं दुट्ठाणिय सव्वघाइ दुट्ठाणएगठाणे य । सम्मत्तमंतरायं च देसघाई अचक्खू य ॥४४॥ . __ (चू०) 'मीसं दुट्ठाणिय सव्वघातित्ति । सम्मामिच्छत्तं द्वाणसण्णं पडुच्च दुठाणियं, घातिसण्णं पडुच्च सव्वघाती। 'दुठाणएगठाणे य सम्मत्तमंतरायं च देसघाती अचक्खू यत्ति-सम्मत्तं ठाणं पडच उक्कोस्सयं दुट्ठाणियं जहण्णयं एगहाणियं, घातिसग्णाए देसघाति। एए वेवि सम्मत्तसम्मामिच्छत्ता तहिं ण भणिया इहं भणिया। पंच अंतराइया अचक्खूदसणं च ठाणसण्णाए उक्कोसा दुठ्ठाणिया, अणुस्कोसा दुहाणिया एगट्ठाणिया वा, घातीसण्णाए उक्कोसा वा देसघाती । बन्धे एगहाण बिहाण तिट्ठाण चउट्ठाणा वि भणिया ॥४४॥ ___ (मलय०)-तत्र नानाप्ररूपणार्थमाह-'मीसं'ति। सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकं-द्विस्थानकरसोपतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच तत्र सर्वथा नोक्तं, किं त्विहैव । यतस्तत्रानुभागबन्धमाश्रित्य शुभाशुभप्ररूपणा कृता। न च सम्यक्त्वसम्यग्मिथ्यास्वयोर्बन्धः संभवति, तत एतद्वर्जा एव तत्राशुभप्रकृतयो निर्दिष्टाः । उदीरणा त्वेतयोरपि भवति । तत इह विशेषेणैतयोरुपादानम् ।