________________
कर्मप्रकृतिः ॥६४॥
श्याणं पि" ॥ अस्याश्चाक्षरग मनिका- अरतिरत्योरुदयो विपाकोदयः पुद्गलान प्राप्य किं न भवति । भवत्येवेति भावः, ततः कथं तयों रसः पुद्गलविपाको नोच्यते १ अत्राचार्यः काक्वा प्रत्युत्तरमाह - 'अप्पुट्ठेहि वि किन्नो' ? अत्र सप्तम्यर्थे तृतीया, ततोऽयमर्थ:अस्पृष्टेष्वपि पुद्गलेषु किं तयो रत्यरत्योर्विपाकोदयो न भवति । भवत्येवेति भावः । ततः पुद्गलव्यभिचारान्न तयो रसः पुद्गलविपाको भवति, किं तु जीवविपाक एव । एवं क्रोधादीनामपि वाच्यम् । तथा क्षेत्रमधिकृत्य यस्य रसस्य विपाकोदयः सरसः क्षेत्रविपाकः, स च चतसृणामानुपूर्वीणामवगन्तव्यः । तथा भवमधिकृत्य यस्य रसस्य विपाकोदयः स रसो भवविपाकः । स च चतुर्णामा युवामवसेयः । अथोच्येत गतीनामपि भवमधिकृत्य विपाकोदयो वर्तते, ततः कथं तासां रसो भवविपाको नाभिधीयते ? तदयुक्तं, व्यभिचारात् । तथाहि - आयुषां स्वभवमन्तरेण परभवे संक्रमेणाप्युदयो न भवति, ततः सर्वथा स्वभवाव्यभिचारात्तानि भवविपाकान्युच्यन्ते । गतीनां पुनः परभवेऽपि संक्रमेणोदयो भवति, ततः स्वभवव्यभिचारान्न ता भवविपाकिन्यः । उक्तं च - “आउव भवविद्यागा गई न आउस्स परभवे जम्हा । नो सञ्चहा वि उदओ गईण पुण संकमेणत्थि " || सुगमा । शेषाणां स्वष्टसप्ततिसंख्यानां प्रकृतीनां जीवविपाको रसः, जीवमेवाधिकृत्य विपाको यस्यासौ जीवविपाकः । 'नाणत्तं' इत्यादि - नानात्वं विशेषः, यत्तत्र शतकाख्ये ग्रन्थेऽनुभागबन्धे नोक्तं तदिह वक्ष्ये, उक्तस्य च विशेषमित्यर्थः । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूहीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः ||४३||
(उ०)—तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसरः । तत्र चेमेऽर्थाधिकाराः – संज्ञाप्ररूपणा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साद्यनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकप्ररूपणां ग्रन्थान्तरोक्त्याऽतिदिशन्नाह -
am
अनुभागोदीरणा
॥६४॥