________________
पडुच्च पञ्चया भणिया, इह उदीरणं पडुच्च पञ्चया भण्णंति ॥४३॥
(मलय०) तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसरः । तत्र चेमेाधिकाराः, तद्यथा-संज्ञा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साधनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकपूचनार्थमाह-'अणुभाग'ति । अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकाख्ये ग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथाऽत्रापि द्रष्टव्याः। तत्र संज्ञा द्विभेदा| स्थानसंज्ञा, घातिसंज्ञा च । स्थानसंज्ञा चतुर्विधा-एकस्थानको द्विस्थानकस्विस्थानकश्चतुःस्थानकश्च । घातिसंज्ञा त्रिप्रकारा, तद्यथा-सर्वघाती देशघाती अघाती च । तथा शुभकर्मणामतुभागः क्षीरखण्डोपमः, अशुभकर्मगां त्वशुभो घोषातकीनिंबरसोपमः । एषा च स्थानसंज्ञा घातिसंज्ञा शुभाशुभप्ररूपणा च प्रागनुभागसंक्रमाभिधानावसरे सप्रपञ्चं कृतेति न भूयो वितन्यते । विपाकश्चतुर्विधः, तद्यथा-पुद्गलवि. पाकः, क्षेत्रविपाकः, भवविपाको, जीवविपाकश्च । तत्र पुद्गलानधिकृत्य यस्य रसस्य विपाकोदयः स पुद्गलविपाकः। स च संस्थानषट्कसंहननषटकातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभपराघातोपघातप्रत्येकसाधारणनाम्नां पद् | त्रिंशत्प्रकृतीनामवगन्तव्यः । तथाहि-संस्थाननामादीनि औदारिकादिपुद्गलानेवाधिकृत्य स्खविपाकमुपदर्शयन्ति, तत आसां रसः पुद्ग-13 लविपाक एव । नन्वनया युक्त्या रत्यरत्योरपि रसः पुद्गल विपाक एवं प्राप्नोति, तथाहि-कंटकादिस्पर्शादरतेविपाकोदयो भवति, स्रक्चन्दनादिसंस्पर्शात्तु रतेः, ततः कथं स नोक्तः ? उच्यते-रत्यरतिविपाकस्य पुद्गलव्यभिचारात् , तथाहि-कंटकादिसंस्पर्शव्यतिरेकेऽपि प्रियाप्रियस्मरणादिना कदाचिद्रत्यरत्योर्विपाकोदयो दृश्यते, ततोऽनयोरनुभागो जीवविपाक एव युक्तः, न पुद्गल विपाकः । | एवं क्रोधादिविपाकोऽपि भावनीयः । उक्तं च-"अरइरईणं उदओ किन्न भये पोग्गलानि संपप्प । अप्पुढेहि वि किन्नो पथं कोहा
HDINDORCakck