SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः स्थित्युदी. रणा ॥५९॥ THENDEMOcs भवति, एवमसातस्यापि दृश्यं, केवलं सातस्थानेऽसातमसातस्थाने च सातं वाच्यम् । हास्यरत्योः सातवदरतिशोकयोरसातवद्भावना कार्या। अपर्याप्तकनाम्न एकेन्द्रियस्य जघन्यस्थितिसत्कर्मण एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चेन्द्रियमध्ये समुत्पन्नस्योत्पत्तिप्रथमसमयादारभ्य पर्याप्तकनाम बृहत्तरान्तर्मुहूर्तकालेन बद्या भूयोऽप्यपर्याप्तकनाम बनतो बन्धावलिकान्तसमये प्राग्बद्धस्य जघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । संहननपश्चकस्य तु मध्ये वेद्यमानसंहननवर्जशेषसंहननानां प्रत्येकमतिदीर्घबन्धकालं ततश्च वेद्यमानसंहननस्य बन्धमभिधाय बन्धावलिकान्तसमये जघन्या स्थित्युदीरणा वाच्या । नीचर्गोत्रमसातवद्वाच्यम् । तथा यस्तैजस्कायिको वायुकायिको वा | बादरः सर्वजघन्यस्थितिसत्कर्मा पर्याप्तसंज्ञिपश्चेन्द्रियतिर्यमध्ये समुत्पद्य बृहत्तरमन्तर्मुहूर्त यावन्मनुजगतिं बध्नाति, तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकान्तसमये तस्य प्रारबद्धतिर्यग्गतेजघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । एवं तिर्यगानुपू अपि वाच्यं, नवरं तस्या जघन्यस्थित्युदीरणाऽन्तरालगतौ तृतीयसमये वाच्या । अयश-कीर्तिदुर्भगानादेयानां च भावनाऽसातव. कार्या । विरोधिप्रकृतीनां बन्धश्चेह यश-कीर्तिसुभगादेयाख्यानां दृश्यः॥३७॥ अमणागयरस चिरद्विइअंत सुरनरयगइउवंगाणं । अणुपुव्वी तिसमइगे नराण एगिदियागयगे ॥३८॥ | (चू०) असणिपंचिंदियातो आगयस्स 'चिरहिइ अंते'त्ति-अप्पणा दीहाए ठितीए अंते णिरयगति-देवगतिवेउब्वियअंगोवंगणामाण एतेसिं असणिपंचिंदिउ सव्वजहण्णसंतकम्भिगो देवेसु णिरएसु वा चिरकालटिई 5 उप्पण्णो, तस्स णारगभवस्स वा देवभवस्स वा चरिमे समए वहमाणस्स णिरयगति-देवगति-बेउब्वियअंगो वंगाणं जहणिया द्वितिउदीरणा लम्भति। वेउव्वियअंगोवंगणामाए नारगसुरेसु अविरुद्धं । 'अणुपुवी तिसमइगे' ॥५९॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy