________________
कर्मप्रकृतिः ॥५७॥
र्जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । बन्धावलिकाचरमसमयग्रहणे च कारणं प्रागेवोक्तम् । एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या ||३६||
"
( उ० ) – 'एकेन्द्रिययोग्यानाम्' । एकेन्द्रियाणामेवोदीरणां प्रति योग्यानामेकेन्द्रियजातिस्थावरसूक्ष्मसाधारण नामप्रकृतीनामेकेन्द्रियो जघन्यस्थितिसत्कर्मा इतरा - एकेन्द्रियजातिप्रतिपक्षा द्वित्रिचतुरिन्द्रियपञ्चेन्द्रियजातीः स्थावरसूक्ष्मसाधारणप्रतिपश्चाश्च त्रसबादरप्रत्येकप्रकृतीर्बद्ध्वा तत एकेन्द्रियजात्यादिप्रकृतीर्वघ्नन्नावलिकां-बन्धावलिकामतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इहेयं भावना - एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि क्रमेण बद्ध्वा तदनन्तरमेकेन्द्रियजातिं बद्धुमारभते, तद्बन्धावलिकान्तसमये प्राग्वद्धाया एकेन्द्रियजातेर्जघन्यां स्थित्युदीरणां करोति । इह बन्धावलि - कानन्तरसमये बन्धावलिकाप्रथमसमयबद्धानामपि लतानामुदीरणाप्राप्तेर्जघन्या स्थित्युदीरणा न प्राप्यते इति बन्धावलिकान्तसमयग्रहणम् । प्रतिपक्षभूतप्रकृतिबन्धोपादानं च तद्बन्धे यावान् कालः संभवति तावन्न्यूनतयै केन्द्रियजातिस्थित्युदीरणायाः स्तोकतरत्वमतिपत्तये, एवं स्थावरसूक्ष्मसाधारणेष्वपि प्रतिपक्षत्र सादर प्रत्येकबन्धान्तरिततया भावना कर्तव्या । 'एगिंदियागए' ति । जातीनामपि - द्वीन्द्रियादिजातीनामपि, एवं प्रागुक्तप्रकारेण केन्द्रियादागतस्य 'तत्स्थितिकस्य' - एकेन्द्रियप्रायोग्य जघन्यस्थितिकस्य जघन्या स्थित्युदीरणा भवति । तथाहि - एकेन्द्रियो जघन्यस्थितिसत्कर्मै केन्द्रियभवादुद्धृत्य द्वीन्द्रियेषूत्पन्नः, ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितुमारभते, अनुभवाद्यसमयादारभ्यैव चैकेन्द्रियजातिं द्राघीयसा कालेन बधुं प्रवृत्तः, ततस्तथैव त्रिचतुःपञ्चेन्द्रियजातीः क्रमेण बध्नाति, एवं च बृहदन्तर्मुहूर्त्तचतुष्कमपगच्छति, ततो द्वीन्द्रियजातिं बधुमारभते, ततो बन्धावलिकान्तसमये तस्या द्वीन्द्रियजातेरेकेन्द्रियभ
aa
स्थित्युदी
रणा
॥५७॥