SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ *ISIODODARSORTSOCaks (मलय०)-'एगिदिय'त्ति। एकेन्द्रियाणामेवोदीरणां प्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्या:-एकेन्द्रियजातिस्थावरसूक्ष्मसाधारणनामानस्तासामेकेन्द्रियो जघन्यस्थितिसत्कर्मा, इतरा-एकेन्द्रियजात्यादिप्रतिपक्षभृता द्वीन्द्रियजात्यादिकाः प्रकृतीबद्ध्वा, तद्यथाएकेन्द्रियजातेन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीः, स्थावरसूक्ष्मसाधारणानां त्रसबादरप्रत्येकनामानि, तत एकेन्द्रियजात्यादीबध्नाति, ततो बन्धावलिकां गत्वाऽतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इयमत्र भावना-एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि परिपाटया बध्नाति, ततस्तद्वन्धानन्तरमेकेन्द्रियजातिं बधुमारभते, ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धायास्तस्या एकेन्द्रियजातेजघन्यां स्थित्युदीरणां करोति । इह बन्धावलिकाया अनन्तरसमये बन्धावलिकाप्रथमसमयबद्धा अपि लता उदीरणामायाति, ततो जघन्या स्थित्युदीरणा न प्राप्यते इति कृत्वा बन्धावलिकायाश्चरमसमये | | इत्युक्तम् । यावता कालेन प्रतिपक्षभूताः प्रकृतीबंध्नाति तावता कालेन न्यूना एकेन्द्रियजातेः स्थितिर्भवति, ततः स्तोकतरा प्राप्यते इति प्रतिपक्षभूतप्रकृतिबन्धोपादानम् । एवं स्थावरसूक्ष्मसाधारणानामपि भावना कर्तव्या । केवलमेतेषां प्रतिपक्षभृताः प्रकृतयः त्रसबादरप्रत्येकनामानो वेदितव्याः। 'एगिदिय'इत्यादि । जातीनामपि-द्वीन्द्रियादिजातीनामपि एवं पूर्वोक्तेन प्रकारेण एकेन्द्रियादागतस्तत्स्थितिकः-एकेन्द्रियप्रायोग्यजघन्यस्थितिको जघन्यां स्थित्युदीरणां करोति । अत्रापीयं भावना-एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्य द्वीन्द्रियेषु मध्ये समुत्पन्नस्ततः पूर्वबद्धा द्वीन्द्रियजातिमनुभवितुमारभते । अनुभवप्रथमसमयादारभ्य चैकेन्द्रियजातिं दीर्घकालं बर्बु लग्नः । ततस्तथैव त्रीन्द्रियजातिं चतुरिन्द्रियजातिं पश्चेन्द्रियजातिं च क्रमेण बध्नाति । एवं च महान्ति चत्वार्य|न्तर्मुहूर्तानि अतिक्रान्तानि । ततो द्वीन्द्रियजाति बधुमारभते । ततो बन्धावलिकायावरयानवे सस्वा द्वीन्द्रियजातेरेकेन्द्रियभवोपा KESONSISEDICICRORSC
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy