SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तीनां प्रकृतीनामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या भवतु, आतपनाम तु बन्धोत्कृष्टं ततस्तस्य बन्धोदयावलिकाद्विकरहितवोत्कृष्टा स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यतेऽन्तर्मुहानेति ? उच्यते-इह देव एवोत्कृष्ट संक्लेशे वर्तमान एकेन्द्रियप्रायोग्याणामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः। स च तां बद्ध्वा तत्रैव देवभवेऽन्तर्मुहूतं कालं यावदवतिष्ठते । ततः कालं कृत्वा बादरपृथ्वीकायिकेषु मध्ये समुत्पद्यते । समुत्पन्नः सन् शरीरपर्याप्या पर्याप्त आतपनामोदये वर्तमानस्तदुदीरयति । तत | एवं सति तस्यान्तर्मुहूर्तानवोत्कृष्टा स्थितिरुदीरणायोग्या भवति । आतपग्रहणं चोपलक्षणम् । तेनान्यासामपि स्थावरै केन्द्रियजातिनरकद्विकतिर्यग्द्विकौदारिकसप्तकान्त्यसंहनननिद्रापश्चकरूपाणामेकोनविंशतिसंख्याकानामनुदयबन्धोत्कृष्टानामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या वेदितव्या । तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना कृता । शेषाणां क्रियते-तत्र नारकः तिर्यग्द्विकौदारिकसप्त कान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सन् तत्रैवान्तर्मुहूर्त स्थित्वा तिर्यसूत्पन्न उत्कृष्टामुदीरगां करोति । निद्रापञ्चकस्याप्युदये उत्कृष्टां स्थितिमुत्कृष्टेन संक्लेशेन बद्ध्वा ततोऽन्तर्मुहर्ते गते सति निद्रोदये उत्कृष्टामुदीरणां करोति ॥३३॥ (उ०)-देवगतिदेवानुपूर्वीमनुष्यानुपूर्वीणामातपस्य विकलत्रिकस्य द्वित्रिचतुरिन्द्रियजातिरूपस्य सूक्ष्मत्रिकस्य च सूक्ष्मापर्याप्तसाधारणस्य स्वस्वोदये वर्तमाना अन्तर्मुहूर्त्तभग्नाः-उत्कृष्टस्थितिबन्धाध्यवसायानन्तरमन्तर्मुहूर्त्तमात्रव्यवधानभाज इत्यर्थः, तावदूनामन्तर्मुहत्तौनां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । अत्रेयं भावना-इह कश्चित्परिणामविशेषेण नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटाकोटिप्रमाणां बद्ध्वा ततः शुभपरिणामविशेषसंपन्या देवगतरुत्कृष्टां स्थिति दशसागरोपमकोटीकोटीप्रमाणां बधुमारभते, तस्यां देवगतिस्थितौ बध्यमानायां स्वबन्धकालरूपावलिकाया उपरि बन्धावलिकाहीनामुपरितनी सर्वामपि नरकगति
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy